Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 321
________________ २८८ श्रीगौतमीयकाव्यं अथ ग्रन्थकृत्कृता प्रशस्तिः। ... अथ संवत्सरादौ यस्मिन् पुरे यद्राज्ये चेदं काव्यं यादृशेन च ३सता कविना निर्मितं तत्सर्वं स्वयमेव ग्रन्थकृदाहसंवच्छैल-वियद्गजोमुप( १८०७ )मिते मासे सहस्याऽऽदिमे पक्षे दक्षसुताधिनाथदिवसे शुद्धे तृतीयातिथौ । ६ श्रीमद्योधपुरे कमध्वजरवौ श्रीरामसिंहे नृपे श्रीमच्छ्रीजिनलाभसूरिगणभृद्राज्ये पुनामिके ॥१॥ विद्याचारवरे गणे खरतरे श्रीक्षेमकीर्त्यऽन्वये ___ सञ्जाता सुवि शान्तिहर्पगणयः श्रीवाचकाख्याभृतः । तच्छिष्या जिनहर्षनाममुनयो वैरङ्गिकाग्रेसरा स्तच्छिष्याः सुखवर्द्धना अपि दयासिंहास्तदीयास्तथा॥२॥ १२ तच्छिष्योऽभयसिंहनामनृपतेर्लब्धप्रतिष्ठो महा गम्भीराऽऽर्हतशास्त्रतत्त्वरसिकोऽहं रूपचन्द्राह्वयः । प्रख्याताऽपरनामरामविजयो गच्छे स दत्ताख्यया १५ काव्येऽकार्षमिमं कवित्वकलया श्रीगौतमीये श्रमम् ॥३॥ दोषाः शब्दसमुद्भवाः कतिपयालङ्कारदोषाः पुनः पद्येष्वेषु मम प्रमादवशतश्चेत् सम्भवेयुः क्वचित् । १ मागशीर्षमासस्येत्यर्थः । २ चन्द्रवासरे इत्यर्थः। ३ राठौड इति । ४ 'शान्तहर्षगणः' इति काशीमुद्रिते पाठः सोऽसंगतो ज्ञेयः। ५ 'वैरङ्गिको विरागाई' इति हैमकोशः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334