Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 316
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २८३ अनिष्टसंयोगश्च अनभिलषितवस्तुसंसर्गः भयं च मीतिः अभिलाषश्च इच्छा रोगश्च मान्धं ते आदयो येषां जन्मजरामरणादीनां तेऽनिष्टसंयोगभयाभिलाषरोगादयस्तेषां योऽभावस्तेन यत्सौख्यं प्रसिद्ध वर्त्तते, च पुनर्यत् सौख्यं सर्वविदः सर्वज्ञस्य भावः सर्ववित्ता सर्व ज्ञत्वं तया युक्ता ईश्वरता ऐश्वर्यम् , यद्वा सर्ववित्ता एव ईश्वरता तया उपलब्धं प्राप्तमस्ति तत् अक्षयमविनश्वरमनन्तमनन्तपर्यायोपेतंह सौख्यं अत्र मुक्तौ विद्यते इति शेषः ।। ३४ ॥ तस्यानन्तत्वमेव स्पष्टयतिसमस्तसौख्यं तु जगत्रयस्थं यदेकराशीक्रियते कथंचित् । तथापि नानन्ततमेऽपि भागे तन्मुक्तसौख्यस्य तुलां विदध्यात् ॥ ३५ ॥ १२ तु इति विशेषे, जगत्रयस्थं त्रैलोक्ये विद्यमानं समस्तसौख्यं सकलसुरासुरनरसुखं यदि कथंचित् केनापि प्रकारेण एकराशीक्रियते एकपुञ्जीक्रियते, तथापि तद्राशीकृतं त्रैलोक्यसुखं मुक्तसौख्यस्य सिद्ध-१५ सुखस्य अनन्ततमे भागेऽपि तुलां सादृश्यं न विदध्यात् न कुर्यात् , तदपेक्षयाऽत्यल्पत्वात्तदनन्ततमभागतुल्यमपि न स्यादित्यर्थः ॥ ३५॥ तदेवं भगवता छिन्नसंशयः प्रभासः किं कृतवानित्याह- १८ जगद्गुरोर्वक्त्रसरोजगर्भा द्विनिर्गतानीति वचोऽक्षराणि । निशम्य सम्यक् परिपीय तत्वं शिवोत्सुकोऽभून्मतिमान् प्रभासः ॥३६॥ २२ , अत्र 'तमुक्तसुखस्य तुला' इति काशीमुद्रितपाठश्छन्दोऽनुरोधात्प्रामादिकः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334