Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 308
________________ गौतमीय प्रकाशाख्य टीकया सहितम् । २७५ प्रवृत्तिमार्गाश्रयिमूढलोकान् यष्टव्यमाजीवनमेतदुक्तम् । निवृत्तिमार्गाश्रयिणां तु मुक्ति 9 निषिध्यते क्वापि न वेदवाक्यैः ॥ २१ ॥ प्रवृत्तिमार्गोऽविवेकिजनप्रवर्त्तनमार्गस्तदाश्रयिणो ये मूढलोका अनात्मतत्त्वज्ञजनाः, तानाश्रित्येति शेषः, 'आजीवनं यष्टव्यम्' ६ इत्येतद्वेदे उक्तमस्ति परं निवृत्तिमार्गो मुक्तिमार्गस्तदाश्रयिणस्तत्त्वज्ञानिन इत्यर्थः, तेषां तु क्वापि प्रदेशे वेदवाक्यैर्मुक्तिर्न निषेध्यते । अयं भावः - 'जरामर्यं वा एतत्सर्वं यदग्निहोत्र' मिति वेदवाक्यात् ९ मोक्षहेतु क्रियारम्भकालाभावात् यत्त्वं मोक्षाभावं शङ्कसे तदयुक्तं, तदर्थापरिज्ञानात्, तस्य अयमर्थो — यदेतदग्निहोत्रं तद्यावज्जीवं सर्वमपि कालं कर्त्तव्यम् । वाशब्दान् मुमुक्षुभिर्मोक्षहेतु भूतमप्यनुष्ठानं १२ विधेयमिति । ततश्च मूर्ख - तत्त्वज्ञभेदेन मार्गद्वयाधिकारिणोर्भिन्नत्वान्न कश्विद्विरोधः ॥ २१ ॥ ------- ३ अथ प्रभासाध्यवसितामाद्यां युक्तिमतिक्रम्याल्पवक्तव्यत्वात्ताव- १५ द्वितीययुक्तिं निराकर्तुमाहयथाहि मुद्राऽङ्गद-कङ्कणादिपर्यायनाशेऽपि न हेमनाशः । तथैव ममरनारकादिपर्यायनाशेऽपि न जीवनाशः ॥ २२ ॥ १८ हीति निश्चितं मुद्रा च खर्णमयी प्रसिद्धा अङ्गदं च बाहुभूषणं कङ्कणं च करभूषणं तानि आदयो येषां ते मुद्राङ्गदकङ्कणादयः एवंविधा ये पर्याया विविधाकारभृद्वस्तुविशेषास्तेषां नाशेऽपि यथा हेम्नः २१ सुवर्णस्य नाशो न भवति तथैव तेनैव प्रकारेण मर्त्याश्च मनुष्या अमराश्च देवा नारकाश्च नरकगतिनामकर्मोदयवर्त्तिनो जीवास्ते २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334