Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 306
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । दिशं न काश्चिद्विदिशं न काञ्चि- स्नेहक्षयात्केवलमेति शान्तिम् ॥ १७ ॥ जीवस्तथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद्विदिशं न काश्चित् क्लेशक्षयात् केवलमेति शान्तिम् ॥ १८॥ ६ - यथा दीपः प्रदीपो निर्वृतिं निर्वाणं विध्यातिमित्यर्थः अभ्युपेतः प्राप्तः सन् नैव अवनिं पृथ्वीं गच्छति, न अन्तरिक्षमाकाशं गच्छति, न काञ्चिदिशं पूर्वादिकां गच्छति, न काञ्चिद्विदिश-९ माग्नेय्यादिकां गच्छति, किं तु स्नेहक्षयात् तैलनाशात्केवलं शान्ति नाशं एति प्रामोति ॥ १७ ॥ इत्थं दृष्टान्तमुपदर्य दार्टान्तिकमाह-जीव इत्यादि । तथा तेन प्रकारेण जीव आत्मा निर्वृति १२ मुक्तिमभ्युपेतः सन् नैवावनिं गच्छति, न अन्तरिक्षं गच्छति, न काञ्चिदिशं न काश्चिद्विदिशं गच्छति, किंतु क्लेशक्षयात् रागद्वेषादिजन्यसंसारिकदुःखनाशात्केवलं शान्ति नाशं एति, दीपस्येवास्य जीवस्य १५ नाश एव निर्वाणमिति भावः ॥ १८ ॥ यत्सौगतानामिति युक्तितोऽपि वर्तेत ते चेतसि मुक्तिलोपः। कर्मक्षयानिर्जर-नारकादिपर्यायनाशे तु न चातिरिक्तम् ॥१९॥१८ . हे प्रभास ! इतीत्थं पूर्वोक्तप्रकारेण सौगतानां बौद्धविशेषाणां . युक्तितोऽपि ते तव चेतसि मुक्तिलोपो मोक्षाभावो यद्यस्माद्वत्तेत, ततोऽपि संशयस्तवेति वाक्यशेषः । पुनः प्रकारान्तरेणापि मोक्षभावसाधने २१ १ अत्र 'चान्तरिक्षम्' इति काशीमुद्रिते पाठश्चिन्त्यः । १८ गौ० का. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334