Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 304
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २७१ कश्चेति कर्मधारयः । सोऽपि अपरान् अन्यान् इन्द्रभूत्यादीन् देशाऽपि द्विजवरान् शान्तिसुखं प्रशमसुखं प्रयातान् प्राप्तान् श्रुत्वाऽमृतस्य पानीयस्य तृष्णक् पिपासुरिव श्रीमतो जगन्नाथस्य वीरप्रभोः सदः३ सभा एव तडागः सरोवरस्तं समाययौ समाजगाम । 'पयः कीलालममृतम्' इत्यमरः । 'पिपासुस्तृषितस्तृष्णक्' इति हैमः ॥ १४ ॥ देवाधिदेवोऽप्यवदत्प्रभास ! प्रकम्पयेत्त्वामिति वेदवाणी। ६ यष्टव्यमाजीवनमेव यत्तु स्वर्गाप्तये तन्न च मोक्षहेतोः ॥१५॥ यागो हि सावद्यविधिखरूपो ___ मोक्षः कुतोऽस्मादिति मुक्तिलोपः। गुहा हि लोकस्य सुदुर्विगाहेति वेदवाक्येन च मोक्षसिद्धिः॥ १६ ॥ द्वाभ्यां सम्बन्धः। १२ देवाधिदेवः श्रीवीरप्रभुरपि अवदत् उवाच तमिति शेषः।। किमित्याह-हे प्रभास! वेदवाणी 'जरामय वा एतत्सर्वं यदमिहोत्र'मित्यादिवेदोक्तवाक् इतीत्थं त्वां प्रकम्पयेत् त्वचेतसि भ्रममुत्पादये- १५ दित्यर्थः । कथमित्याह-तु इति विशेषे, जीवनं जीवितव्यं आऽभिव्याप्येति आजीवनं एव यावज्जीवमेवेत्यर्थः । यष्टव्यं अग्निहोत्रं कर्तव्यं, यद्वेदे उक्तमिति वाक्यशेषः, तत्स्वर्गाप्तये स्वर्गप्राप्तये न च १८ मोक्षहेतोः, न पुनर्मुक्तिनिमित्तमित्यर्थः ॥ १५॥ किं कारणमित्यत आह-याग इत्यादि । हि यतः कारणात् यागो यज्ञः प्राणिवधहेतुत्वात् सावद्यः सपापो विधिरनुष्ठानं खरूपं यस्य स तथोक्तो वर्त्तते, ततोऽस्माद्यागात् कुतो मोक्षः ?, न कुतोऽपीत्यर्थः । इत्येवमुक्त- २२ १ 'योगो हि' इति काशीमुद्रितपाठश्चिन्त्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334