Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 303
________________ २७०. श्रीगौतमीयकाव्यं स्थाने स जातिस्सरणेन कश्चित __पश्येत्तु पूर्वाणि भवान्तराणि ॥१२॥ ३ तेन कारणेन अयं आत्मा प्रतिदेहं प्रतिशरीरं भिन्नो वर्ततेऽत एव खकर्मभिर्भूरिभवान् बहुजन्मानि अनुसरति अनुगच्छतीति तच्छीलः परभवयायीत्यर्थः । स्थाने युक्त एव । कश्चित्तु पुनः स आत्मा जातिस्मरणेन प्राग्जन्मस्मरणरूपमतिज्ञानविशेषेण पूर्वाणि खयं प्राकृतानि भवान्तराणि अन्यजन्मानि पश्येत् विलोकयेत् । ततः सिद्धः परलोक इति भावः । स्थाने इत्यव्ययं युक्तेऽर्थे 'स्थाने तु ९ कारणे युक्ते' इत्यव्ययकाण्डे हैमोक्तेः ॥ १२ ॥ तदेवं छिन्नसंशयोऽसौ किं कृतवानित्याहतदेन्द्रभूत्यादिभिरप्यभीष्टैः प्रसाधितोत्साहभरः समाधौ । १२मेतार्यविप्रोऽपि बभूव भव्यो महाव्रती छात्रशतत्रयेण ॥१३॥ तदा तस्मिन्नवसरेऽभीष्टैः प्राक्तनातिपरिचयाबल्लभैरिन्द्रभूत्यादिभिरपि समाधौ सन्दिग्धार्थसमाधाने प्रसाधितः प्रकर्षेण निष्पादित१५उत्साहस्य भरोऽतिशयो यस्य स तथोक्तः एवंविधो मेतार्यविप्रोऽपि छात्राणां शिष्याणां यत् शत्रयं तेन सह भव्यो योग्यो महाव्रती पञ्चमहाव्रतधरः साधुर्बभूव अभूत् ॥ १३ ॥ १८ -* इति मेतार्यस्खामिदीक्षाग्रहणम् ॥ १० ॥ - अथ प्रभासस्य तदाहततः प्रभासाह्वयपाठकोऽपि श्रुत्वाऽपरान् शान्तिसुखं प्रयातान् । श्रीमञ्जगन्नाथसदस्तडागं समाययौ तृष्णगिवाऽमृतस्य ॥ १४॥ २२ ततो मेतार्यदीक्षाग्रहणानन्तरं प्रभास इत्याह्वयः स चासौ पाठ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334