________________
२७०.
श्रीगौतमीयकाव्यं
स्थाने स जातिस्सरणेन कश्चित
__पश्येत्तु पूर्वाणि भवान्तराणि ॥१२॥ ३ तेन कारणेन अयं आत्मा प्रतिदेहं प्रतिशरीरं भिन्नो वर्ततेऽत एव खकर्मभिर्भूरिभवान् बहुजन्मानि अनुसरति अनुगच्छतीति तच्छीलः परभवयायीत्यर्थः । स्थाने युक्त एव । कश्चित्तु पुनः स आत्मा जातिस्मरणेन प्राग्जन्मस्मरणरूपमतिज्ञानविशेषेण पूर्वाणि खयं प्राकृतानि भवान्तराणि अन्यजन्मानि पश्येत् विलोकयेत् । ततः सिद्धः परलोक इति भावः । स्थाने इत्यव्ययं युक्तेऽर्थे 'स्थाने तु ९ कारणे युक्ते' इत्यव्ययकाण्डे हैमोक्तेः ॥ १२ ॥
तदेवं छिन्नसंशयोऽसौ किं कृतवानित्याहतदेन्द्रभूत्यादिभिरप्यभीष्टैः प्रसाधितोत्साहभरः समाधौ । १२मेतार्यविप्रोऽपि बभूव भव्यो महाव्रती छात्रशतत्रयेण ॥१३॥
तदा तस्मिन्नवसरेऽभीष्टैः प्राक्तनातिपरिचयाबल्लभैरिन्द्रभूत्यादिभिरपि समाधौ सन्दिग्धार्थसमाधाने प्रसाधितः प्रकर्षेण निष्पादित१५उत्साहस्य भरोऽतिशयो यस्य स तथोक्तः एवंविधो मेतार्यविप्रोऽपि
छात्राणां शिष्याणां यत् शत्रयं तेन सह भव्यो योग्यो महाव्रती पञ्चमहाव्रतधरः साधुर्बभूव अभूत् ॥ १३ ॥ १८ -* इति मेतार्यस्खामिदीक्षाग्रहणम् ॥ १० ॥ -
अथ प्रभासस्य तदाहततः प्रभासाह्वयपाठकोऽपि श्रुत्वाऽपरान् शान्तिसुखं प्रयातान् ।
श्रीमञ्जगन्नाथसदस्तडागं समाययौ तृष्णगिवाऽमृतस्य ॥ १४॥ २२ ततो मेतार्यदीक्षाग्रहणानन्तरं प्रभास इत्याह्वयः स चासौ पाठ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org