________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २७१ कश्चेति कर्मधारयः । सोऽपि अपरान् अन्यान् इन्द्रभूत्यादीन् देशाऽपि द्विजवरान् शान्तिसुखं प्रशमसुखं प्रयातान् प्राप्तान् श्रुत्वाऽमृतस्य पानीयस्य तृष्णक् पिपासुरिव श्रीमतो जगन्नाथस्य वीरप्रभोः सदः३ सभा एव तडागः सरोवरस्तं समाययौ समाजगाम । 'पयः कीलालममृतम्' इत्यमरः । 'पिपासुस्तृषितस्तृष्णक्' इति हैमः ॥ १४ ॥ देवाधिदेवोऽप्यवदत्प्रभास ! प्रकम्पयेत्त्वामिति वेदवाणी। ६ यष्टव्यमाजीवनमेव यत्तु स्वर्गाप्तये तन्न च मोक्षहेतोः ॥१५॥
यागो हि सावद्यविधिखरूपो ___ मोक्षः कुतोऽस्मादिति मुक्तिलोपः। गुहा हि लोकस्य सुदुर्विगाहेति वेदवाक्येन च मोक्षसिद्धिः॥ १६ ॥
द्वाभ्यां सम्बन्धः। १२ देवाधिदेवः श्रीवीरप्रभुरपि अवदत् उवाच तमिति शेषः।। किमित्याह-हे प्रभास! वेदवाणी 'जरामय वा एतत्सर्वं यदमिहोत्र'मित्यादिवेदोक्तवाक् इतीत्थं त्वां प्रकम्पयेत् त्वचेतसि भ्रममुत्पादये- १५ दित्यर्थः । कथमित्याह-तु इति विशेषे, जीवनं जीवितव्यं आऽभिव्याप्येति आजीवनं एव यावज्जीवमेवेत्यर्थः । यष्टव्यं अग्निहोत्रं कर्तव्यं, यद्वेदे उक्तमिति वाक्यशेषः, तत्स्वर्गाप्तये स्वर्गप्राप्तये न च १८ मोक्षहेतोः, न पुनर्मुक्तिनिमित्तमित्यर्थः ॥ १५॥ किं कारणमित्यत आह-याग इत्यादि । हि यतः कारणात् यागो यज्ञः प्राणिवधहेतुत्वात् सावद्यः सपापो विधिरनुष्ठानं खरूपं यस्य स तथोक्तो वर्त्तते, ततोऽस्माद्यागात् कुतो मोक्षः ?, न कुतोऽपीत्यर्थः । इत्येवमुक्त- २२
१ 'योगो हि' इति काशीमुद्रितपाठश्चिन्त्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org