________________
२७२
श्रीगौतमीयकाव्यं
खरूपवेदवाक्येन मुक्तिलोपो मोक्षाभावो, ज्ञायते इति शेषः । तथा हीति निश्चितं, 'मुक्तिरूपा गुहा लोकस्य सुतरां दुर्विगाहा दुःप्रवेशा ३प्रवर्त्तते' इति वेदवाक्येन च मोक्षसिद्धिर्ज्ञायते, अत्र किं सत्यमिति
संशयः, इह काव्यद्वयस्य भावार्थस्त्वयम्-हे प्रभास ! त्वमेवं मन्यसे निर्वाणमस्ति न वेति । अयं च संशयस्तव 'विरुद्धवेदपदश्रवणनिब६न्धनः । तानि चामूनि वेदपदानि 'जरामयं वा एतत्सर्वं यदग्निहोत्रं तथा 'सैषा गुहा दुरवगाहा' तथा 'द्वे ब्रह्मणी परमपरं च तत्र परं सत्यं ज्ञानमनन्तरं ब्रह्मेति । एतेषां चायमर्थः तव चेतसि वर्तते यदेतदग्नि९होत्रं तज्जरामर्यमेव यावज्जीवं कर्तव्यमिति । अग्निहोत्रक्रिया च भूतवधहेतुत्वाच्छबलरूपा, सा च वर्गफलैव स्यान्नाऽपवर्गफला, यावज्जीवमिति चोक्ते कालान्तरं नास्ति । यत्रापवर्गहेतुभूतक्रियान्तरारम्भः १२ स्यात् । तस्मात्साधनाभावान्मोक्षाभावस्ततश्चेत्यादिकानि केवलमोक्षाभाव
प्रतिपादकानि । शेषाणि तु तदस्तित्वसूचकानि । तथा हि-गुहाऽत्र
मुक्तिरूपा, सा च संसाराभिनन्दिनां दुरवगाहा दुःप्रवेशा, तथा परं १५ ब्रह्म सत्यं मोक्षः, अनन्तरं तु ब्रह्मज्ञानमिति, ततो मोक्षस्यास्तित्वं
नास्तित्वं च वेदप्रतिपादितमवगम्य तव संशयस्तत्रैषां वेदपदानामर्थ
त्वं न जानासि यतस्तेषामयमों वक्ष्यमाणलक्षण इति ॥ १६ ॥ १८ अथ मोक्षाभावप्रतिपादने प्रभासाध्यवसितां युक्तिमपि दूषयितुं भगवान् प्रकटयन्नाहदीपो यथा निर्वृतिमभ्युपेतो
नैवावनिं गच्छति नान्तरिक्षम् । १ सौगतमतप्रकल्पितमोक्षाभावप्रतिपादनपरां युक्तिं प्रकटयति भगवान् , तत् खण्डनार्थम् इत्यर्थः । २ अत्र 'द्वीपो यथा' इति काशीमुद्रितपाठश्चिन्त्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org