________________
गौतमीयप्रकाशाख्यटीकया सहितम् । दिशं न काश्चिद्विदिशं न काञ्चि- स्नेहक्षयात्केवलमेति शान्तिम् ॥ १७ ॥ जीवस्तथा निर्वृतिमभ्युपेतो
नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद्विदिशं न काश्चित्
क्लेशक्षयात् केवलमेति शान्तिम् ॥ १८॥ ६ - यथा दीपः प्रदीपो निर्वृतिं निर्वाणं विध्यातिमित्यर्थः अभ्युपेतः प्राप्तः सन् नैव अवनिं पृथ्वीं गच्छति, न अन्तरिक्षमाकाशं गच्छति, न काञ्चिदिशं पूर्वादिकां गच्छति, न काञ्चिद्विदिश-९ माग्नेय्यादिकां गच्छति, किं तु स्नेहक्षयात् तैलनाशात्केवलं शान्ति नाशं एति प्रामोति ॥ १७ ॥ इत्थं दृष्टान्तमुपदर्य दार्टान्तिकमाह-जीव इत्यादि । तथा तेन प्रकारेण जीव आत्मा निर्वृति १२ मुक्तिमभ्युपेतः सन् नैवावनिं गच्छति, न अन्तरिक्षं गच्छति, न काञ्चिदिशं न काश्चिद्विदिशं गच्छति, किंतु क्लेशक्षयात् रागद्वेषादिजन्यसंसारिकदुःखनाशात्केवलं शान्ति नाशं एति, दीपस्येवास्य जीवस्य १५ नाश एव निर्वाणमिति भावः ॥ १८ ॥ यत्सौगतानामिति युक्तितोऽपि वर्तेत ते चेतसि मुक्तिलोपः। कर्मक्षयानिर्जर-नारकादिपर्यायनाशे तु न चातिरिक्तम् ॥१९॥१८ . हे प्रभास ! इतीत्थं पूर्वोक्तप्रकारेण सौगतानां बौद्धविशेषाणां . युक्तितोऽपि ते तव चेतसि मुक्तिलोपो मोक्षाभावो यद्यस्माद्वत्तेत, ततोऽपि संशयस्तवेति वाक्यशेषः । पुनः प्रकारान्तरेणापि मोक्षभावसाधने २१
१ अत्र 'चान्तरिक्षम्' इति काशीमुद्रिते पाठश्चिन्त्यः ।
१८ गौ० का.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org