________________
२७४
श्रीगौतमीयकाव्यं
प्रभासाभिप्रेतां युक्तिमाह-कर्मेत्यादि । कर्मणां क्षयात् निर्जर-नारकादिपर्यायाणां देव-नारक-तिर्यग्नरभावानां नाशो भवति, तन्नाशे तु ३ अतिरिक्तं देव-नारकादिपर्यायेभ्यो भिन्नमन्यत् जीववस्तु न चास्तीति
शेषः । चः समुच्चये । अयमर्थः-'देव-नारकादित्वमेव संसार उच्यते, तद्भिन्नश्चान्यः कोऽपि जीवो नास्ति, कदाचिदप्यनुपलम्भात् । ६देवनारकादिपर्यायरूपसंसारनाशे तु जीवस्य खवरूपनाशात्सर्वथा नाश एव भवति, ततः कस्याऽसौ मोक्ष' इति त्वं मन्यसे ? इति ॥ १९॥ ९ एवं विकल्पैर्बहुसंशयान
स्तिष्ठेरिहादत्व मदुक्तयुक्तीः। याभिर्मनस्ते स्थिरतामुपेयात
सत्याग्रतो वा कियती मृषोक्तिः ? ॥२०॥ हे प्रभास ! एवममुनोक्तप्रकारेण विकल्पैर्वितबहु प्रचुरं यथा स्यात्तथा संशयानः सन्देहं कुर्वाणस्त्वं तिष्ठेरवतिष्ठसे, परं इहास्मिन् १५सन्दिग्धेऽर्थे मदुक्तयुक्तीः आदख गृहाण, याभियुक्तिभिस्ते तव
मनः स्थिरतां उपेयात् प्राप्नुयात् । वाऽथवा सत्यस्य सद्भूताथे
वचनस्य अग्रतः पुरतो मृषोक्तिर्मिथ्यावचनं कियती? किंप्रमाणा? १८ स्थास्यतीति शेषः, कियत्कालं स्थास्यतीत्यर्थः । एतावता मदुच्यमान
सत्ययुक्तीनां पुरस्त्वद्विकल्पिता मिथ्यायुक्तयो न स्थास्यन्तीति भावः ॥२०॥ ___ अथादौ जरामर्यमित्यादि यद्वेदवाक्यं मोक्षाभावप्रतिपादकतया २२ प्रभासेनाध्यवसितं तत्प्रतिविधातुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org