________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २६९ 'मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः' इति हैम(अनेकार्थ)वचनान्मुखशब्दोऽत्र प्रारम्भार्थः, सुखित्व दुःखिल्वे मुखे प्रारम्भे येषां ते तथोक्ताः, सुखित्व-दुःखित्वप्रभृतय इत्यर्थः; विभेदा विशिष्टभेदा३. इहास्मिन् लोके सर्वत्र सर्वेषु जीवेषु यत् पृथक् पृथक् . सन्ति भिन्ना भिन्ना विद्यन्ते तत् आत्मभेदात् आत्मनां भिन्नत्वात् । आत्मैक्ये तु तदसम्भवादिति भावः । ततश्च सती शोभना या उक्तयुक्तिस्तया पर-६ लोकयानं परभवगमनं किं न संभाव्यते ? संभाव्यत एवेत्यर्थः । आत्मैक्ये तु तदुर्घट, तन्निरासेन तत्सिद्धिः स्फुटैवेति तात्पर्यम् । यद्वा सदिति पृथक् पदं, परलोकयानपदस्य विशेषणं विद्यमानमित्येतदर्थः ॥१०॥९
उक्तमेवार्थ स्पष्टयतिब्रह्मैक्यवादे परकर्मभोगः परस्य युज्येत न चैतदिष्टम् । सुखस्य दःखस्य च सङ्करत्वे विलुप्यते तब्यवहारभावः ॥११॥॥१२
ब्रह्मण आत्मन ऐक्यं एकत्वं तस्य यो वादः कथनं तस्मिन् सति परस्य यज्ञदत्ताद्यपेक्षयाऽन्यस्य देवदत्तादेः अपरो यज्ञदत्तादिस्तस्य यानि कर्माणि तत्कृतशुभाऽशुभकर्माणीत्यर्थः । तेषां भोगो भुक्तियुज्येत १५ ब्रह्मैक्ये देवदत्तादेर्यज्ञदत्तादिकृतकर्मानुभवो युज्यतेत्यर्थः । न चैतत् इष्टं वान्छितं असम्भवादेवेति भावः । तथा ब्रह्मैक्ये सुखस्य च पुनदुःखस्य सङ्करत्वे मिश्रितत्वे सति तयोः सुख-दुःखयोयों व्यवहार- १८ स्तस्य भावः सत्ता विलुप्यते विच्छिद्यते, 'अयं सुखी, अयं दुःखी'त्यादिव्यवहारस्य सत्व व्यवच्छिद्यते इत्यर्थः ॥ ११ ॥ ततः किं स्थितमित्याहतेनायमात्मा प्रतिदेहभिन्नः
खकर्मभिर्भूरिभवानुसारी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org