________________
२६८
श्री गौतमीयकाव्यं
वता तु नैवमुक्तं, किं तु साचात्स्वमुखेनैव तत्संशयापनोदः कृतोऽस्ति, तथापि कविना ग्रन्थविस्तरभया देवमुक्तमिति बोध्यम् ॥ ८ ॥ ३ अथ यदुक्तं प्राक् 'एकः सर्वगतो निष्क्रियश्चात्मे' त्यादि तदाश्रित्याह
यन्मन्यसे ब्रह्मकृतः प्रकाशस्तनौ तनावस्ति मृषेति वाणी । ६ लक्षणैर्भेदि तदेव भिन्नं विशेषतश्चापि यथा घटादि ॥ ९ ॥ तार्य ! तनौ तनौ देहे देहे ब्रह्मणा एकेनात्मना कृतः प्रकाशो - Sस्तीति यत्त्वं मन्यसे जानासि तन्मननकारणभूता वाणी मृषा मिथ्या ९ वर्त्तते । आत्मनामानन्त्यादिति भावः । कथमित्याह — यद्वस्तुलक्षणै - दो विशेषोऽस्त्यस्येति भेदि भेदयुक्तमित्यर्थः, तद्भिन्नमेव भवेत् । चापीति समुचये, यथा विशेषतो लक्षणविशेषात् घटादि घटपटादि १२ वस्तु भिन्नमेवास्ति तथेत्यर्थः । अयं भावः -- न चास्माभिरेक आत्मा इष्यते किं तु लक्षणभेदादनन्ताः यत उपयोगलक्षणो जीवः । स चोपयोगो राग-द्वेष- कषाय-विषयाध्यवसायादिभिर्भिद्यमान उपाधिभे१५ दादानन्त्यं प्रतिपद्यते इत्यनन्ता जीवा लक्षणभेदाद् घटादिवदिति । तथा न सर्वगत आत्मा किं तु शरीरमात्र व्यापकस्तत्रैव तद्गुणोपलब्धेः, स्पर्शनवदिति । एवं न निष्क्रिय आत्मा भोक्तृत्वाद्देहवदित्याद्युप१८ लक्षणाद् ज्ञेयम् ॥ ९॥
1
अन्यच्च
२१
१३
सुखित्वदुःखित्वमुखा विभेदाः
सर्वत्र सन्तीह पृथक् पृथग् यत् ।
तदात्मभेदात्परलोकयानं
संभाव्यते किं न सदुक्तयुक्तया ! ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org