SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २६७ प्रकटः अयमात्मा जीवस्त्वया कया उपपत्त्या युक्त्याऽवबुद्धो ज्ञातः, इत्थं प्रश्नं कुर्वित्यर्थः ॥ ६॥ तमेव दध्याः प्रतिवादितायां पूर्वे विकल्पे स समाधिकारी। तथाऽऽत्मसिद्ध्यै पुनरिन्द्रभूति पृच्छ त्वमेवात्र सृतं बहूक्त्या ॥७॥ हे मेतार्य, पूर्वे पूर्वस्मिन् विकल्पे किं यच्छरीरं स एव जीव एवंरूपे वितर्के प्रतिवादितायां प्रतिवादित्वे तं वायुभूतिमेव दध्यास्त्वं धारयः, यतस्तत्र स वायुभूतिरेव समाधि समाधानं करोति तच्छील: ९ समाधिकारी, अस्तीति शेषः, तथा तद्वत् आत्मसिद्ध्यै आत्मनः सिद्ध्यर्थं पुनस्त्वमेवेन्द्रभूतिं प्रथमगौतमं पृच्छ । अत्र प्रस्तावेऽस्माकं बहूत्या बहुकथनेन सृतं पर्याप्तं आत्मनः सद्भावे भौतिकदेहाति-१२ रिक्तत्वे च सिद्धे सिद्ध एव परलोक इति भावः ॥ ७ ॥ अन्यच्चप्रतीहि देवानपि नारकान्वा तथाऽन्यलोकाधिगमाय धीमन्!।१५ तं मौर्यपुत्रं तमकम्पितं वा समाधये पर्यनुयुस भद्र ! ॥८॥ __ तथा तद्वत् हे धीमन् हे भद्र ! अन्यलोकस्य परलोकस्य अधिगमो ज्ञानं तस्मै देवान् वा पुनर्नारकानपि प्रतीहि जानीहि, देवा १८ नारका अपि च सन्तीति प्रतिपद्यखेत्यर्थः, समाधये देवनारकास्तित्वसमाधानार्थ तं प्रागुक्तं मौर्यपुत्रं वा पुनस्तं अकम्पितं पर्यनुयुत पृच्छ, ताभ्यां तदस्तित्वस्य प्रागेव निर्णीतत्वादिति भावः । पर्यनुपूर्वात् 'युजिर योगे' अस्माद्रौधादिकाकर्तरि लोट् । इह यद्यपि भग-२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy