________________
२६६
श्रीगौतमीयकाव्यं
ब्रह्मण उक्तखरूपस्य एकस्यैवात्मनः पृथक् भिन्नः प्रभासः प्रकाशः, वर्तते इति शेषः । यद्येवमभ्युपगम्यते तथापि देहस्याऽपगमे विनाशे सति ३ अन्यलोकं परभवं कः प्रयाति न कोऽपीत्यर्थः । तस्यात्मनः सर्वेषु गोमहिष्यादिपिण्डेषु सर्वगतत्वेन निःक्रियत्वेन चाकाशवत् संसरणाभावादिति भावः । चः समुच्चये, हे मेतार्य ! त्वं किमिति प्रश्ने ६ इत्येवं विकल्पसे विचिंतयसि ? ॥ ४ ॥
पुनर्भगवानाहशृणोषि शास्त्रेषु शरीरभाजां देहच्युतौ चापि भवान्तराप्तिम् । ९विरुद्धवादेन मुहुस्तवैवं दोलाचलं चित्तमभूद्वथैव ॥ ५॥
च पुनर्देहस्य च्युति शस्तस्यां सत्यां शरीरभाजां जीवानां भवा. न्तराप्तिं अन्यभवप्राप्तिमपि शास्त्रेषु त्वं शृणोषि । एतेन परलोक१२ सिद्धिरप्याऽऽवेदिता । हे मेतार्य ! एवममुना प्रकारेण विरुद्धवादेन
शास्त्रेषु परस्परविरुद्धकथनेन मुहुर्वारंवारं तव चित्तं वृथैव दोलावत्
चलं चपलं अभूत् ॥ ५॥ ___ १५ इति दर्शितः पूर्वपक्षः; अथाऽत्र प्रतिविधीयते
अत्रास्ति चेदुत्तरपक्षकाङ्क्षा
___ त्वं पृच्छ तद्गौतमवायुभूतिम् । __ १८ भूतातिरिक्तः प्रकटोऽयमात्मा
त्वयाऽवबुद्धोऽत्र कयोपपत्त्या ? ॥६॥ अत्रास्मिन्सन्दिग्धेऽथें चेद्यदि तवोत्तरपक्षस्य काङ्क्षा वाञ्छाऽस्ति, तत्तर्हि त्वं गौतमो गौतमगौत्रीयो यो वायुभूतिस्तं पृच्छ । कथ. २२ मित्याह-हे वायुभूते ! अत्रास्मिन् शरीरे भूतेभ्योऽतिरिक्तो भिन्नः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org