________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
२६५
ऽत्यये विनाशे सति तद्धर्मस्य चैतन्यस्यापि विनाशादन्यलोके परभवे जन्म उत्पत्तिः कुतो भवेत् ?, न कुतोऽपीत्यर्थः । इदमत्र तात्पर्यम्चैतन्यं तावद्भूतेभ्यो नार्थान्तरं तद्धर्मत्वात्, यथा गुडघातक्या (दि) - ३ मद्याङ्गेभ्यो मदधर्मः, ततश्च यो यदनर्थान्तरभूतो धर्मः स तद्विनाशे नश्यत्येव, यथा पटादिधर्मः शुक्लत्वादिः, अतो भूतैरेव सह प्रागेव नष्टस्य चैतन्यस्य कुतो भवान्तरगमनम् ? इति । अथ भूतेभ्योऽर्थान्तरं मन्यते तथापि न परलोक इत्याह – यद्वेत्यादि । यद्वाऽथवाऽरणेररणिकाष्ठाद्वह्निरिव इयं चेतनाऽस्माद्भूत समुदायादुत्पद्यते, ततोऽपि हेतोर्न अन्यलोकोऽस्ति । अत्राऽयं भावः — भूतेभ्योऽर्थान्तरत्वेऽपि अनित्यं चैतन्यं उत्पत्तिधर्मकत्वात्, अरणिका ठोत्पन्नतद्भिन्नवह्निवदिति । यच्चानित्यं तत्कियन्तमपि कालं स्थित्वाऽग्निवदत्रापि ध्वंसते इति न तस्य भवान्तरयायित्वम्, अत इत्थमपि न परलोक सिद्धिरिति ॥ ३ ॥ १२ अथवा प्रतिपिण्डं भिन्नानि भूतधर्मरूपाणि बहूनि चैतन्यानि नेष्यन्ते, किंत्वेक एव समस्तचैतन्याश्रयः सर्वत्रिभुवनगतो निःसङ्गतोऽक्रियश्वात्माऽभ्युपगम्यते । यत उक्तं- 'एक एव हि भूतात्मा १५ भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥' ननु तथापि न परलोकसिद्धिरिति दर्शयन्नाह -
पानीयचन्द्रप्रतिबिम्बवद्वा
तनौ नौ ब्रह्म पृथकप्रभासः ।
तथापि देहापगमेऽन्यलोकं
१८
प्रयाति कति विकल्पसे किम् १ ॥ ४ ॥ वाऽथवा पानीयेषु यच्चन्द्रप्रतिबिम्बं तद्वत् तनौ तनौ देहे देहे २२
१ 'पृथक्प्रकाशः' इति काशी मुद्रितपाठः ।
Jain Education International For Private & Personal Use Only www.jainelibrary.org