________________
२६४
श्रीगौतमीयकाव्यं समाङ्पूर्वादिणः कर्तरि लिट् । अस्मिन् सर्गे उपजातिच्छन्दः, तल्लक्षणं तु प्रागुक्तमेव ॥१॥ ३ आभाष्य तं वीरजिनेश्वरोऽपि जगाद वत्सेह जहाहि मोहम् । चिरन्तनं किं परलोकवस्तु स्याद्वा न वेति खमनःप्रसक्तम् ॥२॥ ... वीरजिनेश्वरोऽपि तं मेतार्य आभाष्य हे मेतार्य ! एहीत्यादिवाचा ६सम्भाष्य जगाद उवाच । किं जगादेत्याह-हे वत्स! परलोको भवान्तरगमनलक्षणः स एव वस्तु-पदार्थः, किमिति-वितर्के, स्याद्वा विद्यते वा न वा, न विद्यते वा ? इत्येवंरूपं खमनसि निजचिते ९प्रसक्तं सम्बद्धं चिरंभवं चिरन्तनं बहुकालोद्भवं मोहं मिथ्याज्ञानं इहाऽस्मिन् प्रस्तावे जहाहि परित्यज । अयं भावः हे मेतार्य ! त्वमेवं मन्यसे- किं परलोकोऽस्ति नास्ति वेति, अयं च संशयस्तव १२ विरुद्धवेदपदश्रवणनिबन्धनो वर्तते, तानि च 'विज्ञानधन एवैतेभ्यो
भूतेभ्य' इत्यादीनि प्रथमगणधरवादोक्तानि द्रष्टव्यानि, तेषां चार्थ
त्वं न जानासीत्यादि तथैव । अतोऽनुचितोऽयं संशयो न कर्तव्य १५ इति ॥ २ ॥
अथ यया युक्त्या मेतार्यः परलोकनास्तित्वं मन्यते तां भगवान् व्यक्तीकुर्वन्नाह१८ यच्चेतना भौतिकदेहधर्मस्तदत्यये जन्म कुतोऽन्यलोके ।
यद्वाऽरणेवह्निरिवेयमसादुत्पद्यते नापि ततोऽन्यलोकः ॥३॥ ___ यच्छब्दोपादानात् तच्छब्दस्याऽनुक्तस्याऽप्यत्र ग्रहणम् , ततश्चैवम
न्वयः-यद्यस्मात्कारणात् चेतना चैतन्यं भौतिकस्य भूतैः पृथिव्यादिभि२२ रुत्पन्नस्य देहस्य शरीरस्य धर्मो विद्यते इति शेषः, ततस्तस्य देहस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org