SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २६३ इत्यादियुक्तीनां प्रतिबन्धः सत्यतया खीकारस्तेन शुद्ध्यनिर्मलीभवचित्तं यम्य स तथोक्तोऽथवा इत्यादियुक्तिभिर्यः प्रतिबन्धः खशङ्कानिरोधस्तेनेत्यादि प्राग्वत् । अत एव प्रबुद्धः प्रबोधं प्राप्तोऽचलभ्रातृ-३ बुधोऽचलभ्राता नाम पण्डितश्छात्राणां शैतंत्रयेण समन्वितो युक्तः सन् वीरजिनेन्द्रेण श्रीवर्द्धमानखामिना शिष्टां शिक्षारूपेणोक्तां दीक्षां ललो गृह्णाति म । इदमुपजातिच्छन्दः, तल्लक्षणं तु प्रागुक्त-६ मेवेति ॥ ५१ ॥ इति अकम्पिताचलभ्रातृदीक्षाग्रहणवर्णनो ___नाम दशमः सर्गः ॥१०॥ इति स्पष्टम् । __ इति श्रीगौतमीयप्रकाशाख्यायां गौतमीयमहाकाव्यव्याख्यायां दशमः सर्गः ॥ १० ॥ एकादशः सर्गः। श्रीवीरपादाम्बुजचश्चरीकानिशम्य सूरीनपरान् प्रबुद्धान् । मेतार्यनामाऽपि सुधीः सुधीभिः समं समेयाय जिनोपकण्ठे॥१॥१५ विशुद्धविज्ञानकर प्रसार्य मेतार्यमुख्यौ भवसिन्धुमध्यात् । समुद्धृतो येन जिनेश्वराय नमोऽस्तु तस्मै त्रिशलात्मजाय ॥१॥ प्रबुद्धान् प्रबोधं प्राप्तान् अत एव श्रीवीरस्य भगवतः पादाम्बु-१० जयोश्चरणकमलयोश्चञ्चरीका भ्रमरा इव श्रीवीरपादाम्बुजचञ्चरीकास्तान् तथाभूतान् अपरानन्यान् गौतमादीन् सूरीन् पण्डितान्निशम्य श्रुत्वा मेतार्यनामाऽपि सुधीविद्वान् सुधीभिः सुबुद्धिभिः खशिष्यैः समं सह जिनस्य श्रीवीरस्य उपकण्ठे समीपे समेयाय समाजगाम २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy