SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २.२ श्रीगौतमीयकाव्य च चित्रितपत्रवत् शुभा शुभविविधचित्रयुक्तं पत्रमिव एकमेव पुद्गलस्कन्धं विद्धि जानीहि । भिन्नकार्यदर्शनेन तत्कारणभूतयोः पुण्यपा३ पयोः भिन्नत्वविवक्षया तु पुण्य-पापे भिन्ने अपि स्यातामित्यप्युपलक्ष णाबोध्यम् ॥ ४९॥ । नन्वत्र पञ्चसु विकल्पेषु अन्तिमपक्षत्रयस्य तु निर्णयोऽकारि, ६ परमाद्यपक्षद्वयस्य का गतिरित्याशङ्क्याह पुण्यपापद्वये सिद्धे पक्षौ केवलयोस्तयोः। अयुक्तावेव मन्तव्यौ सुयुक्तरक्षमत्वतः ॥५०॥ ९ उक्तयुक्त्या पुण्यपापद्वये सिद्धे सति केवलयोस्तयोः पुण्यपापयोः पक्षौ अयुक्तौ एव मन्तव्यौ ज्ञातव्यौ । कुत इत्याह-सुयुक्तेः शोभनयुक्तेः अक्षमत्वतोऽसमर्थत्वात् सुयुक्तिं सोढुमशक्तत्वादित्यर्थः । १२ तथा हि-केवलपुण्यपक्षे पुण्याऽपकर्षमात्रेण यद् दुःखबहुलत्वमुक्तं तदयुक्तं, यतस्तदुःखबहुलत्वं पुण्यापकर्षजनितं न भवति, किं तु खानुरूपकर्मप्रकर्षजनितं वेदनाप्रकर्षानुभवरूपत्वात् , यथा सौख्यप्रक१५र्षानुभूतिः स्वानुरूपकर्मप्रकर्षप्रभवा इति दृष्टान्तः, एवमत्रोपपत्त्यन्त- रमपि विशेषावश्यकवृत्ते यम् । तथा केवलपापपक्षेऽपि पापाऽप कर्षमात्रजनितं सुखं न भवति-पापस्याल्पीयसोऽपि दुःखजनकत्वात् । १८ नपणीयानपि हि विषलवः स्वास्थ्यहेतुर्भवति, तस्मात्पुण्यजनित• मेवाल्पमपि सुखमित्यादि खबुद्ध्याऽभ्यूह्य वाच्यमिति ॥ ५० ॥ ___ तदेवं छिन्नसंशयोऽसौ किं कृतवानित्याह इत्यादियुक्तिप्रतिबन्धशुद्ध्यत्तिोऽचलभ्रातृबुधः प्रबुद्धः । २२ समन्वितश्छात्रशतत्रयेण दीक्षां ललौ वीरजिनेन्द्रशिष्टाम्॥५१॥ १पृ० २५१ श्लो० २५-२६-२७ । २ अत्र 'शुद्धचित्तः' इति काशी... मुद्रितपाठः टीकाकृतां न सम्मतः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy