________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २६१ वदतिसूक्ष्मं, न पुनमादिभावेन परिणतस्कन्धवहादरं स्थूलं ज्ञेयम् ॥ ४६॥
प्राक् तुल्याऽतुल्यत्वरूपेण कार्य-कारणता दर्शिता, इदानी ३ तुल्यत्वरूपेण तामाह
साम्यं वास्तवबोधे तु कार्य-कारणयोरपि ।
तथा च सत्यं कार्यानुरूपं कारणमुच्यते ॥४७॥ ६ वास्तवबोधे तात्त्विकज्ञाने तु कार्य-कारणयोः साम्यं सादृश्यमप्यस्ति । तथा च सति यत्कार्यानुरूपं कार्यसदृशं कारणमुच्यते तत्सत्यमिति ॥ ४७ ॥ कथमित्याहजीवस्यापि परीणामः सुख दुःखाभिधानकः ।
तद्योगात्तेन कार्यानुरूपं कारणमुच्यते ॥४८॥ १२ सुख दुःखाभिधानकः सुख दुःखनामको जीवस्यापि परिणामो विद्यते । न केवलं कर्मण एवेति अपिशब्दार्थः, तेन कारणेन तयोजीवसुखाचोर्यो योगः सम्बन्धस्तस्मात्कार्यानुरूपं कारणमुच्यते । अयं १५ भावः-सुखादीनां कर्मैव केवलं कारणं न भवति, किं तु जीवोऽपि तेषां समवायिकारणं भवति, कर्म तु असमवायिकारणमस्ति, ततश्च सुखादेरमूर्त्तत्वे तत्समवायिकारणस्य जीवस्याऽप्यमूर्तत्वमस्त्येवेति १८ युक्तमेवोक्तं कार्यानुरूपं कारणमिति ॥ १८॥ अथोपसंहारमाहततः पुण्यं च पापं च सिद्धं पूर्वोक्तयुक्तिभिः।
पुद्गलस्कन्धमेवैकं विद्धि चित्रितपत्रवत् ॥४९॥ ततस्तस्मात्कारणात् पूर्वोक्तयुक्तिभिः सिद्धं निष्पन्नं पुण्यं च पापं २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org