________________
२६०
श्री गौतमीयकाव्यं
मूर्त्ता मूर्त्तिमन्तः स्रक् - चन्दना - ऽङ्गनादयः प्रायः सुखस्य हेतवः सन्ति, एवमेव अनेनैव प्रकारेण विषा ऽहि कण्टकादयः प्रायोऽसुखस्य ३ दुःखस्य हेतवो विद्यते । अपिः सम्भावनायां सम्भावय त्वमित्यर्थः ॥ ४३ ॥ चेद्यदि अत्र स्रगादिजन्ये सुखादौ तुल्याऽतुल्यत्वरूपेण कार्य-कारणता वर्त्तते, तदा सुखादिकारणं पुण्यं च पापं च मूर्त्तत्वेन ६ कथं न हि ? उक्तनीत्या इहाऽपि सौ न विघटते इत्यर्थः । इह सामान्यतः संभवमात्रमाश्रित्येयं दृष्टान्तयोजना कृताऽस्ति, विशेषावश्यकवृत्तौ तु नैवमिति ॥ ॥ ४४ ॥
,
९ तदेवं पुण्य-पापे व्यवस्थाप्येदानीं तयोरेव लक्षणमाह-सुवर्णादिगुणं सम्यग्विपाकं पुद्गलवजम् ।
जीवस्थं सत्क्रियोद्भूतं सर्वं पुण्यमिति स्मृतम् ॥ ४५ ॥ यदेतद्विपरीतं तत्सर्वं पापमिति स्मृतम् । एतद्वयमपि ज्ञेयं नाऽतिसूक्ष्मं न बादरम् ॥ ४६ ॥ सुशोभना वर्णादयो वर्ण- गन्ध-रस- स्पर्श- लक्षणा गुणा यस्य तत्त१५ थोक्तं, तथा सम्यक् समीचीनो विपाकोऽनुभावो यस्य तत्, तथा सत्यं शोभना याः क्रिया दानादिकास्ताभिरुद्भूतं प्रादुर्भूतं एवंविधं जीवस्थं जीवप्रदेशेषु क्षीरनीरन्यायेन स्थितं सर्वं पुद्गलवजं पुद्गलसमूहः पुण्य१८ मिति स्मृतं कथितम् ॥ ४५ ॥ यत् पुनरेतस्मात्पुण्याद्विपरीतं विप रीतलक्षणं अशुभवर्णादिगुणमशुभविपाकं जीवघाताद्यसत्क्रियोद्भूतं तत् सर्वं जीवस्थं पुद्गलवजं पापमिति स्मृतं, एतत्पुण्यपापरूपं द्वयमुभय२१ मपि वस्तु सूक्ष्मेण कर्मवर्गणाद्रव्येण निष्पन्नत्वेऽपि न परमाण्वादि
१ कार्यकारणता ।
१२
Jain Education International For Private & Personal Use Only www.jainelibrary.org