________________
गौतमीयप्रकाशाख्यटीकया सहितम्। २५९ पुण्यपापे अपि किं न अरूपिणी ? कथं नेत्यर्थः, कार्यानुरूपं हि कारणमिष्यते, कार्य च सुखादिकमात्मपरिणामत्वादरूपि, ततश्च. तत्कारणं पुण्यपापात्मकं कर्माऽपि अरूप्येव प्राप्नोति न रूपवत् , ३ इष्यते च भवद्भिः कर्मणो रूपत्वम् , ततः कथमनयोः कार्यकारणत्वमिति भावः ॥ ४१॥ अत्रोत्तरमाहविकल्पोऽयमपि त्याज्यः सर्वे भावा यतः स्थिताः ।
तुल्याऽतुल्यत्वरूपेण दोषः कोऽपि ततोऽत्र न ॥४२॥ हे अचलभ्रातः ! त्वयाऽयमपि विकल्पो वितर्कस्त्याज्यः । कथ-९ मित्याह-यतो न केवलं कार्यकारणे एव तुल्याऽतुल्यरूपे किं तु सर्वे त्रिभुवनान्तर्गता भावाः पदार्थाः परस्परं तुल्याऽतुल्यत्वरूपेण स्थिताः सन्ति, न पुनः किञ्चित्कस्याप्येकान्तेन तुल्यमतुल्यं वेति १२ भावः । ततस्तस्मात् कारणादत्र सुखादिकारणभूतकर्मणो रूपवत्त्वे न कोऽपि दोषः ॥ ४२ ॥ अमुमेवार्थ श्लोकद्वयेन दृढयन्नाह
१५ सुखस्स हेतवो मूर्ताः स्रक्-चन्दना-ऽङ्गनादयः। । एवमेवाऽसुखस्यापि विषा-हि-कण्टकादयः॥४३॥
तुल्याऽतुल्यत्वरूपेण कार्य-कारणताऽत्र चेत् । तदा पुण्यं च पापं च मृतत्वेन कथं न हि ॥४४ ॥१९
१ यद्यपि 'सुखस्य हेतवो मूर्ताः प्रायः स्रक्चन्दनादयः' इत्ययं पाठो वर्ति पठितः काशीमुद्रितपुस्तके यत्र, तथाऽपि 'सक्चन्दनाङ्गनादयः' इति पाठः खारस्यवैशिष्ट्यात् टीकाकृद्भिराहत इति प्रतीयते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org