________________
२५८
श्रीगौतमीयकाव्यं
अथ कर्मणः पुण्य-पापस्वभावविवेकं कुर्वन्नाहविंशत्युत्तरमानद्धाः कर्मप्रकृतयः शतम ।
आत्मन्यत्र शुभाः पुण्या अपराः पापसंज्ञिकाः ॥३९॥ आत्मनि जीवे विंशत्युत्तरं शतं विंशत्यधिकशत(१२०)संख्याः कर्मप्रकृतयः कर्मभेदा आनद्धा बद्धाः सन्ति, अत्राऽस्मिन् विंशत्य६ धिकशते सुरनरत्रिकादयो द्वाचत्वारिंशत् शुभाः प्रकृतयः पुण्याः, पुण्यप्रकृतय उच्यन्ते इति शेषः । अपरा अन्याः अशुभाः
यशीतिसङ्ख्याकाः पापसंज्ञिकाः पापप्रकृतय उच्यन्ते इत्यर्थः । नन्वेत९दुभयमीलने चतुर्विंशत्युत्तरं शतं प्रकृतयो जायन्ते, ततः कथमत्र विंशत्युत्तरं शतमित्युक्तम् ? उच्यते-वर्णादिचतुष्कस्य शुभाऽशुभ
भेदेन वारद्वयं गणनाच्चतुर्णामाधिक्यं परं बन्धे सामान्यत एव १२ वर्णादिचतुष्कस्योपादानान्नोक्तसङ्ख्याविघात इति ॥ ३९ ॥ __ अथ सुख-दुःखहेतुकर्मोपदर्शनायाऽऽह
सातकर्मोदयादाशु प्रजायेत सुखं फलम् । ७५ असातकर्मप्रभवं फलं दुःखाय जायते ॥४०॥
सातकर्मणः सातवेदनीयकर्मण उदयात् आशु शीघ्रं सुखं सुखखरूपं फलं प्रजायेत उत्पद्येत, तथाऽसातकर्मप्रभवं असातवेदनीय१८ कर्मोदयजन्यं फलं दुःखाय जायते, दुःखखरूपं भवतीत्यर्थः ॥४०॥
अत्र प्रेरकः आहयथाऽऽत्मपरिणामत्वात्सुख-दुःखे अरूपिणी ।
तथैव कारणे किं न पुण्य-पापे उभे अपि ? ॥४१॥
यथा येन प्रकारेण आत्मनो जीवस्य परिणामत्वात् सुख-दुःखे २३ अरूपिणी स्तः, तथैव तेनैव प्रकारेण सुख-दुःखयोः कारणे उभे द्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org