________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
२५७
चेद्यदि सुख-दुःखानां सम्भव उत्पत्तिः खभावाद्भवेत् तदा सक्चन्दन-विषादीनां सुखादेहेतूनां कारणानां प्रत्यक्षतो दृश्यमानानामहेतुता स्यात् । अतोऽपि न पुण्य-पापकर्मव्यतिरिक्तः स्वभाव-३ पदार्थः ॥ ३६ ॥ अथ तात्पर्यमाह
अत्यन्ताऽनुपलब्धेऽपि स्वभावे कर्तृता यदि। ६
तदा कर्मणि संसिद्धे कर्तृता किं निषिध्यते ? ॥ ३७॥ खपुष्पवत् अत्यन्तमनुपलब्धेऽपि खभावे यदि कर्तृता, भवता (खी)क्रियते इति शेषः, तदा संसिद्ध युक्त्यादिना सम्यग १ निष्पन्ने कर्मणि कर्तृता किं निषिध्यते ?, कथं नाङ्गीक्रियते इत्यर्थः ।। ३७ ॥ ननु कथं कर्मसिद्धिरित्याशङ्कयाह
१२ कर्मसिद्धिस्त्वग्निभूतेर्वादे चैव प्रपञ्चिता ।
पुण्य-पापस्वभावाभ्यां वैशिष्ट्यमिह सम्मतम् ॥ ३८॥ च पुनः कर्मणः सिद्धिनिष्पत्तिस्तु अग्निभूतेर्द्वितीयगणधरस्य वादे १५ एव प्रपञ्चिता विस्तरेणोक्ताऽस्ति, अतोऽत्र पुनर्नोच्यते इति भावः । परं इहाऽस्मिन् प्रस्तावे पुण्य-पापस्वभावाभ्यां वैशिष्ट्यं विशिष्टत्वं युक्तत्वमित्यर्थः, सम्मतं सम्यङ्मननविषयीकृतमस्ति । अयं भावः-१८ प्राक् सामान्यतः कर्मसिद्धिरुक्ता, इह तु पुण्य-पापखभावयुक्तं कर्म कथितमिति विशेषः ॥ ३८ ॥
__ १ अत्र 'अत्यन्तानुलब्धेष्वपि' इति काशीमुद्रित पाठश्छन्दोऽनुरोधादखारस्याच्च प्रामादिकः ।
१७ गौ० का.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org