________________
२५६
श्रीगौतमीयकाव्यं
कथमित्याह-यद्यस्मात्कारणात् पुण्यं च पापं च पुण्यपापे ते खभावौ यस्य तत्तथोक्तं वस्तु कर्मप्रतिष्ठितं कर्मशब्देन प्रतिष्ठां प्राप्त३मित्यर्थः । इदमत्र तात्पर्य्यम् -कर्मणो मूर्तत्वेन तत्वभावयोः पुण्यपापयोरपि मूर्त्तत्वात्सिद्धं तयोः सुखदुःखादिकर्तृत्वम् , तच्चाऽस्माकं सम्मतमेवेत्यतः सिद्धसाध्यत्वमिति ॥ ३३॥ ६ अथ खभावमाश्रित्य तृतीयं विकल्पमाह
स्वभावशब्दवाच्योऽर्थश्चेदकारणता भवेत् ।
तदा समस्तभावानामेकदैव समुद्भवः ॥ ३४ ॥ ९. चेद्यदि खभावशब्दस्य वाच्योऽभिधेयः अर्थोऽकारणता निर्हेतुकत्वं भवेत् तदा सर्वभावानां सर्वेषां घट-पटादिपदार्थानां एकदा एव
एकस्मिन्नेव काले समुद्भवः समुत्पत्तिः स्यात् ॥ ३४ ॥ १२ अस्तु तर्हि को दोष इत्याशङ्कयाह
पदार्थाकस्सिकोत्पत्तौ नियताकारता च न ।
दृष्टाऽभ्राणां विकारे न नियताकारता यतः ॥ ३५॥ १५ पदार्थानामकस्माद्भवा आकस्मिकी, सा चाऽसौ उत्पत्तिश्च तस्यां पदार्थाकस्मिकोत्पत्तौ सत्यां नियताकारता निश्चिताकारत्वं न स्यात् ।
चः पादपूरणे, यतोऽभ्राणां मेघानां विकारे विविधपरिणती नियता१८ कारता न दृष्टा अकस्मादुत्पन्नत्वादिति भावः । तस्मान्नाकारणताखभावशब्दार्थः ॥ ३५॥
अन्यच्च,
सम्भवः सुखदुःखानां स्वभावाच्चेद्भवेत्तदा । स्रक्-चन्दन-विषादीनां हेतूनां स्वादहेतुता ॥ ३६॥
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org