________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २५५ खभावस्य अमूर्त्तत्वे सति अमूर्तत्वं खीकरोषि चेदित्यर्थः, तर्हि अस्य खभावस्य कार्ये उत्पाद्यवस्तुविषये आकाशवत् अकर्तृताऽकर्तृत्वं स्याद् भवेत् , यथा आकाशमऽमूर्त्तत्वात् कस्यापि कार्यस्य न कारकं ३ तथाऽयमपि स्यादित्यर्थः । एवं सति हे महामते! हे महाबुद्धिभृत् ! ते तव प्रतिज्ञाते प्रतिज्ञाविषयीकृते खभावजन्योऽयं भवप्रपञ्च इत्येवंरूपे अर्थे विरोधो भवेत् । स्वभावस्याऽकर्तृत्वेन भवप्रपञ्चाऽजनकत्वा-६ दिति भावः ॥ ३१ ॥
अथ स्वभावमाश्रित्य विकल्पान्तरमाह- स्वभावो वस्तुधर्मश्चेत्तदाऽसौ यस्य वस्तुनः। ९
तच मूर्तममूर्त वेत्यत्राप्येषैव कल्पना ।। ३२॥ चेद्यदि खभावो न वस्तुविशेषः किं तु वस्तुनः कस्यचित्पदार्थस्य धर्मः परिणामोऽस्तीति, त्वं मन्यसे इति वाक्यविशेषः, तदा असौ १२ खभावो यस्य वस्तुनो धर्मः तद्वस्तु मूर्त वाऽथवाऽमूर्तमऽस्ति इत्यत्रापि पक्षे एषा अनन्तरोक्तैव कल्पना विचारणा ज्ञेयेति शेषः । चः पादपूरणे ॥ ३२ ॥ तां कल्पनामेव दर्शयति
अमूर्त्तत्वे ह्यकर्तृत्वं मूर्तत्वे सिद्धसाध्यता ।
पुण्यपापस्वभावं यद्वस्तु कर्मप्रतिष्ठितम् ॥ ३३॥ १० हीति निश्चितं, स्वभावो यस्य वस्तुनो धर्मः तस्य वस्तुनोऽमूर्त्तत्वे सति खभावस्याऽकर्तृत्वं स्यात् , तस्य मूर्तत्वे सति सिद्धसाध्यता एव ।२०
१ अत्र 'वस्तु कर्म प्रतिष्ठितम्' इति विश्लिष्टः काशीमुद्रितपाठो ह्युपेक्षणीय
एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org