________________
२५४
श्री गौतमीयकाव्यं
सुखस्य वृद्धिर्यादुत्कृष्टं सुरसौख्यं यथा चापथ्याहारस्य सर्वथा परित्यागात् परमारोग्यमुपजायते । एवं सर्वपापक्षये मोक्षः इति शेषविक३ पत्रयभावना तु सङ्क्षेपतः प्रागेव कृता ॥ २८ ॥
६
उपेक्ष्य भङ्गकानाद्यान् पञ्चमश्चेह चर्च्यते । कोऽयं वस्तुविशेषः स्याद्यः स्वभावोऽभिधीयते १ ॥२९॥ चः पादपूरणे, इह विकल्पपञ्चके आद्यान् भङ्गकान् विकल्पान् ९ उपेक्ष्य अनादृत्य पञ्चमो विकल्पश्चर्च्यते विचार्यते । कथमित्याह — यः खभावोऽभिधीयते कथ्यते भवता सोऽयं को वस्तुविशेषः पदार्थभेदः स्यात् विद्यते ! ॥ २९ ॥ ?
स वा मूर्त्तेऽस्त्यमूर्ती वा ब्रूहि यत्तेऽभिरोचते । मूर्त्तत्वे कर्मणः सिद्धावस्माकं सिद्धसाध्यता ॥ ३० ॥ वा पुनः स खभावपदार्थों मूर्ती मूर्त्तिमान् अस्ति किं वा मूर्ती१५ऽस्ति यत्ते तुभ्यमभिरोचते तद् ब्रूहि कथय खभावस्य मूर्त्तत्वे सति कर्मणः सिद्धौ निष्पत्तौ सत्यां अस्माकं सिद्धसाध्यतैव । अयमर्थः - यदि त्वं स्वभावस्य मूर्त्तत्वं स्वीकरोषि तर्हि स्वभावशब्देन कर्मणः १८ सिद्धिर्जाता, तत्सिद्धौ चास्माकं सिद्धसाध्यता कर्मजन्यत्वात् सुखदुःखानामिति । ते इत्यत्र ' रुच्यर्थानां प्रीयमाण' ( १ |४| ३३ ) इति चतुर्थी ॥ ३० ॥
1
आकाशवदमूर्त्तत्वे कार्येऽस्य स्यादकर्तृता ।
प्रतिज्ञाते विरोधस्ते भवेदेवं महामते । ॥ ३१ ॥
१ 'उपेक्ष्य भगवान् नाद्यान्' इति काशीमुद्रितपाठोsस्वारस्यादुपेक्ष्य एव ।
इत्थं संशयं प्रादुष्कृत्य प्रत्यासत्चिन्यायेन पञ्चमविकल्पं तावद्दर्शयितुमाह
१२
२२
Jain Education International For Private & Personal Use Only www.jainelibrary.org