________________
गौतमीयप्रकाशाख्यटीकया सहितम् । तच्च शुभाऽशुभपुद्गलात्मकं सामान्येन एकमेवेति भावः । तुर्य इत्युपलक्षणम् , तेन तृतीयोऽपि विकल्पः कथंचिदस्माकं संमत एव, यतः पुण्यपापरूपतया विशेषविवक्षायां भिन्ने एव पुण्यपापे स्तः ॥ इति ३ उक्तश्लोकचतुष्टयार्थः। एतद्भावना त्वेवम्-इह केषांचित्तीथिकानामयं प्रवादः पुण्यमेवैकमस्ति न पापम् ॥ १॥ अन्ये त्याहुः-पापमेवैकमस्ति न तु पुण्यं ॥ २ ॥ अपरे तु वदन्ति उभयमप्यन्योन्यानुवि-६ द्धखरूपं मेचकमणिकल्पं संमिश्रसुखदुःखफलहेतु साधारणं पुण्यपापाख्यमेकं वस्त्विति ॥ ३॥ अन्ये तु प्रतिपादयन्ति स्वतन्त्रमुभयं विविक्तसुखदुःखकारणमिति ॥ ४ ॥ अपरे पुनराहुः-मूलतः कमैव ९ नास्ति, खभावसिद्धः सर्वोऽप्ययं जगत्प्रपञ्चः ॥ ५॥ अतस्त्वमप्येतान् पञ्चविकल्पान्मन्यसे, एतेषां च परस्परविरुद्धत्वात्संशयदोलामारूढोऽसि त्वं, येषां मते पुण्यमेवैकमस्ति तन्मते पुण्यस्य लेशतो १२ लेशतो वृद्धौ सत्यां सुखस्यापि क्रमशो वृद्धिर्भवति तावद्यावदुत्कृष्टं . खर्गसुखमिति, तदेव च पुण्यं यथा यथा हानिमुपयाति तथा तथा जीवानां क्रमेण दुःखमुत्पद्यते यावत्सर्वप्रकर्षप्राप्तं नरकदुःखं तस्यैव १५ च पुण्यस्य सर्वथा क्षये मोक्षः । एतच सर्व पथ्याहारदृष्टान्ताद्भावनीयम् । तथा हि-यथा पथ्याहारस्य क्रमेण वृद्धौ आरोग्यवृद्धिस्तथा पुण्यवृद्धौ सुखवृद्धिर्यथा च पथ्याहारस्य क्रमेण परिहारे सरोगता १८ भवति एवं पुण्यापचये दुःखोत्पत्तिः सर्वथा पथ्याहारपरिहारे च मरणवत्पुण्यक्षये मोक्ष इति केवलपापमभ्युपगच्छता मते तु अपथ्याहारदृष्टान्ताद्वैपरीत्येन भावना कार्या । तथा हि-यथा क्रमेणाऽपथ्यवृद्धौ २१ रोगवृद्धिस्तथा पापवृद्धौ दुःखवृद्धिस्तावद्यावदुत्कृष्टं नरकदुःखं यथा चाऽपथ्यत्यागात् क्रमेणारोग्यवृद्धिः, तथा क्रमेण पापस्यापकर्षा-२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org