________________
२५२
श्रीगौतमीयकाव्यं
किमिति वितर्के, पुण्यमेव एकमस्ति न तु पापं, तर्हि कथं कस्याऽपि दुःखोत्पत्तिरित्याशङ्कयाह-दुःखं तु तस्य पुण्यस्य अप३ कर्षस्तरतमयोगाद्धानिस्तस्मात् स्याद्भवेत् , न तु पापादित्यर्थः । इत्येको विकल्पः । किं वा अत्रास्मिन् लोके पापमेवैकमस्ति न तु पुण्यं, केवलपापाभ्युपगमे सुखोत्पत्तिः कथमित्याशङ्कयाह-सुखं तु तस्य ६ पापस्याऽपकर्षः क्रमेण हानिस्तस्मात् स्यात् , नतु पुण्यादित्यर्थः । इति द्वितीयो विकल्पः । इहाऽऽये पथ्याहारवत् , द्वितीयेऽपथ्याहारवदिति दृष्टान्तद्वयमभ्यूद्यम् , तद्भावना त्वग्रे दर्शयिष्यामः ॥ २५॥ ९वाऽथवा ते पुण्यपापे वर्णदी च यमुना च वर्णदी-यमुने गङ्गा-यमुने इव विविक्ते विभिन्ने स्यातां भवेतां, भिन्नखभावयोः सुखदुःखयोः
कारणत्वादिति भावः । इति तृतीयो विकल्पः । स्वर्णदीत्यत्र 'गिरि१२ नद्यादीनाम्' (वा०) इति वैकल्पिक णत्वं, किं वा वर्णभेदो
हरितालगुलिकादीनामन्यतरन्मीलितं वर्णकद्वयं उपलक्षणान्मेचकमणिर्नरसिंहादिर्वा तद्वत् पुण्यपापमयं पुण्यपापखरूपमेकमेव सङ्कीर्ण १५वस्तु विद्यते तद्गतेन एकेन पुण्यांशेन सुखं अपरेण पापांशेन च
दुःखमुत्पद्यते इत्यर्थः । इति चतुर्थों विकल्पः ॥ २६ ॥ अथवा
चेद्यदि सुखदुःखानि खभावादेव, पुण्यपापाभ्यां विनैवेत्यर्थः, उद्ध१८ वन्ति उत्पद्यन्ते तर्हि तेषां सुखदुःखानां निमित्तत्वे कारणत्वे पुण्यपापयोः प्रकल्पनं किमु ?, किमर्थमित्यर्थः । इति पञ्चमो विकल्पः ॥ २७ ॥ एतेषु च पञ्चसु विकल्पेषु तुर्यश्चतुर्थो विकल्पोऽस्माकमपि
ईहित इष्टः । कथमित्याह-पुण्येत्यादि । यतो यस्मात् पुण्यपाप२२मयं वस्तु पदार्थः पुद्गलैर्निष्पन्नं पौद्गलिकं कर्म वर्तते इति शेषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org