________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २५१ जगाद जगतां नाथः प्रेक्ष्याऽऽसन्नशिवं च तम् । भ्रान्तस्त्वमचलभ्रातर्विकल्पैः पुण्यपापयोः ॥ २४ ॥ चः समुच्चये, यदासावभ्यागतस्तदा जगतां त्रिलोकानां नाथ३ ईश्वरो भगवान् श्रीवीरस्तमचलभ्रातरं आसन्नं निकटं शिवं कल्याण मुक्तिर्वा यस्य स तं, तथोक्तं प्रेक्ष्य ज्ञानदृष्ट्या विलोक्य जगाद उवाच । किं जगादेत्याह-हे अचलभ्रातः! त्वं पुण्यपापयोर्वि-६ कल्पैः किं पुण्यपापे स्तो न वेति विमर्शः भ्रान्तः, भ्रमं प्राप्तोऽसीति शेषः । अयं भावः-हे आयुष्मन् ! त्वमेवं मन्यसे 'वा किं पुण्यपापे स्तो न इति' ?, अनुचितश्चायं तव संशयो विरुद्धवेदपदादिश्रुति-९ निबन्धनत्वात् । तत्र वेदपदानि तावत् 'पुरुष एवेदं सर्वम्' इत्यादीनि, यथा द्वितीयगणधरे तथा वाच्यानि तेषां चार्थ त्वं न जानासीत्याद्यपि तथा व्याख्येयमिति ॥ २४ ॥
१२ अथ पञ्चभिर्विकल्पैः पुण्य-पापविषयं तत्संशयं प्रादुष्कुर्वन्नाह
पुण्यमेवाऽस्ति दुःखं तु स्यात्किं तदपकर्षतः । पापमेवाऽस्ति किं वाज़ सुखं तदपकर्षतः ॥ २५ ॥ १५ स्याता विविक्ते वा ते द्वे स्वर्णदी-यमुने इव । पुण्यपापमयं वस्तु किं वैकं वर्णभेदवत् ? ॥ २६ ॥ अथवा सुख-दुःखानि स्वभावोदुद्भवन्ति चेत् । १० किमु तेषां निमित्तत्वे पुण्यपापप्रकल्पनम् ? ॥ २७॥ एतेषु च विकल्पेषु तुर्योऽसाकमपीहितः । पुण्यपापमयं वस्तु कर्म पौगलिकं यतः ॥ २८ ।।
चतुर्भिः सम्बन्धः। २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org