________________
२५१
श्रीगौतमीयकाव्यं सर्वस्यापि भावत्वमेवेति तात्पर्यम् । यदपि 'न ह वै प्रेत्य नारकाः सन्ति' इत्यादौ वेदवाक्ये नारकाऽभावः शक्यते भवता, तदप्ययुक्तं, ३ यतोऽयमत्राभिप्रायो बोध्यः-न खलु प्रेत्य परलोके मेर्वा दिवच्छाश्वताः केचनाप्यवस्थिता नारकाः सन्ति किंतु य इहोत्कृष्टं पापमर्ज.
यति स इतो गत्वा प्रेत्य नारको भवति । अतः केनापि तत्पापं न ६ विधेयं, येन प्रेत्य नारकैर्भूयते इति ॥ २१ ॥ तदेवं भगवता छिन्नसंशयोऽसौ किं कृतवानित्याह
इत्यादियुक्तिभिर्बुद्धः सह च्छात्रैखिभिः शतैः । ९ अकम्पितोऽपि चारित्रं सामायिकमुपाददे ॥ २२ ॥
इत्यादय एवंप्रकारा या युक्तयो भगवदुक्तोपपत्तयः ताभिर्बुद्धो बोधं प्राप्तोऽकम्पितोऽपि द्विजोपाध्यायः त्रिभिः शतैश्छात्रैः सह १२ सामायिकं चारित्रं उपाददे गृहीतवान् । 'आङो दोऽनास्यविहरणे' (१।३।२०) इत्यात्मनेपदम् ॥ २२ ॥
(इत्यकम्पितस्वामिदीक्षाग्रहणम् ॥ ८॥ १५ अथाऽचलातुस्तदाह
आत्मनो मोक्षकार्याय निशम्य प्रस्थितान् मुनीन् ।
अभ्यागतोऽचलभ्रातोपाध्यायछात्रसम्पदा ॥२३॥ १८ आत्मनः खस्य मोक्षकार्याय मोक्षरूपं कार्य कर्तुं प्रस्थितान् प्रचलितान् मुनीन् गौतमादिऋषीन् निशम्य श्रुत्वाऽचलभ्राता नाम उपाध्यायश्छात्राणां खशिष्याणां संपत् समृद्धिस्तया सह अभ्यागतः प्रभुसम्मुखमागच्छति स्म ॥ २३ ॥
इत्यकाम्पत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org