________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २४९ अवसरे एतेषामतिदुःखिततिर्यग्नराणामपि दुःखाद्विश्रान्तिर्विश्रामो विलोक्यते दृश्यते । अयमर्थः-येषामुत्कृष्टपापफलभोमस्तेषां संभवद्भिः सर्वैरपि प्रकारैर्दुःखेन भवितव्यं, नचैवमतिदुःखितानामपि ३ तिर्यगादीनां दृश्यते, आलोक-तरुच्छाया-शीतपवन-सरःकूपजलादिसुखस्यातिदुःखितेष्वपि तेषु दर्शनात् नरकप्रसिद्धैश्छेदनभेदनादिप्रकारैनिरन्तरं च दुःखस्यादर्शनात् । ततश्च न ते उत्कृष्टदुःखभोक्तारः। किंतु एतव्यतिरिक्ता एव नारकास्तादृशा ज्ञेयाः ॥ १९॥
पुनर्नारकास्तित्वे युक्तिमाहनारकैरुपमेयाः स्युर्ये चाऽप्यत्यन्तदुःखिताः। तिर्यञ्चो वा मनुष्या वा तस्मात्सन्तः कथं न ते? ॥२०॥
येऽपि च अत्यन्तदुःखितास्तिर्यञ्चो वा मनुष्या वा ते नारकैः उपमेया उपमातुं योग्याः स्युः, तस्माद्धेतोस्ते नारकाः कथं सन्तो १२ विद्यमाना न वर्तन्ते ?, सन्त एवेति भावः ॥ २० ॥ अमुमेवार्थ द्रढयति
भावे भावोपमैव स्थान त्वभावेन ह्युचिता। १५
वाच्याः शुद्धपदेनेते नाभावा नारकास्ततः ॥ २१ ॥ भावे सद्भूते पदार्थे भावेन सद्भूतपदार्थेन उपमा एव उचिता योग्या स्यात् न त्वभावेन असद्भूतपदार्थेन खपुष्पादिना उपमा उचिता। १८ तथा एते नरकस्था जीवाः शुद्धं घटपटादिवत्केवलं यन्नारक इत्याकारकं पदं तेन वाच्या अभिधेयाः सन्ति, ततः कारणात् नारका अभावा अभावखरूपा, न किंतु भावरूपा एवेति भावः । पदद्वयाभिधेयस्य कस्यचिदर्थस्य वन्ध्यापुत्रादिवदभावत्वेऽपि शुद्धपदाभिधेयस्य २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org