________________
२४८
श्रीगौतमीयकाव्यं अथाऽर्थापत्तिमेव दर्शयति
अन्यथाऽनुपपत्त्यैकलक्षणात्किल हेतुतः। ३ अर्थापत्तिः प्रमाणं स्यात्पीनोऽयं रात्रिभुग्यथा ॥१७॥
किलेति संभावनायाम् , अन्यथाऽनुपपत्तिरेव एकं लक्षणं यस्य स तस्मात् हेतुतोऽर्थापत्तिः प्रमाणं स्यात् । तत्र दृष्टान्तमाह-पीनोऽय६ मित्यादि । 'दिवा न भुले' इति वाक्यशेषोऽत्र द्रष्टव्यः । यथा पीनः पुष्टोऽयं देवदत्तादिः पुमान् दिवा न भुङ्क्ते अत्र पीनत्वाऽन्यथानुपपत्त्या रात्रौ भुते इति रात्रिभुक् अर्थापत्त्या ज्ञायते ॥ १७ ॥ ९ एवमत्रापि भावयति
उत्कृष्टसुखभोगाय यथा देवाः प्रतिष्ठिताः।
तथैवैकान्तदुःखाय विना नैरयिकांस्तु के ? ॥ १८ ॥ १२ यथा उत्कृष्टसुखस्य भोगाय भुक्त्यर्थं देवाः प्रतिष्ठिताः प्रतिष्ठां
प्राप्ताः सन्ति, तथैव एकान्तदुःखाय अत्यर्थदुःखानुभवनाय नैरयिकान् विना नारकजीवव्यतिरेकेण तु पुनः केऽन्ये ? न केऽपीत्यर्थः । तत१५श्वार्थापत्त्याऽपि नारकाः सन्तीत्यागतम् ॥ १८ ॥
ननु अतिदुःखिता ये तिर्यग्मनुष्यास्त एवोत्कृष्टपापफलभोगित्वात् नारकव्यपदेशभाजो भविष्यन्ति, किमदृष्टनारककल्पनयेत्या१८ शङ्याह
नैकान्तदुःखभोक्तारस्तियञ्चोऽपि नरा अपि ।
दुःखाद्विश्रान्तिरेतेषां काले काले विलोक्यते ॥ १९॥ तिर्यञ्चोऽपि नरा मनुष्या अपि अतिदुःखिता अपि सन्तो, न २२ एकान्तदुःखभोक्तारः सन्ति । यतः काले काले कस्मिंश्चित् अवसरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org