________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २४७ इति ख्यातिः प्रसिद्धिः सत्या प्रवर्तते। अयमर्थः-यथा कारणे कार्योपचारात् आयुषः कारणमपि घृतमायुरित्युच्यते तथा एतज्ज्ञानमप्यस्त्विति ॥ १३ ॥
तव प्रत्यक्षविज्ञाने सत्या चैवं परोक्षता ।
प्रत्यक्षं सकलं यन्मे तेन पश्यामि नारकान् ॥ १४ ॥ एवं च तव मते प्रत्यक्षं यद्विज्ञानं तत्रोपचारात् प्रत्यक्षत्वे सत्यपि ६ सत्या परोक्षतैव विद्यते । इत्थं नारकाऽदर्शने हेतुभूतं तज्ज्ञानपारोक्ष्यमुपदर्य स्खस्य तद्वैपरीत्यमाह-यद्यस्मान्मे मम सकलं सर्व वस्तु प्रत्यक्षं प्रत्यक्षज्ञानविषयकं वर्तते तेनाहं नारकान् पश्यामि ॥ १४ ॥९ अथोक्तेऽर्थे भगवानुपपत्तिमाहअनन्यदृष्टं भावं ते निरीक्षे चेन्मनोगतम् ।
तदा प्रतीहि सकलं प्रत्यक्षं मयि वर्त्तते ॥ १५॥ १२ हे अकम्पित ! ते तव न अन्यैरनतिशयज्ञानिभिदृष्टं अनन्यदृष्टं मनोगतं भावमभिप्रायं पदार्थ वा चेद्यदि अहं निरीक्षे साक्षात्पश्यामि तदा तर्हि मयि सकलं वस्तु प्रत्यक्षं वर्तते इति त्वं प्रतीहि १५ जानीहि ॥ १५॥
अतश्चेन्न परीतोषोऽर्थापत्तिं मानमाश्रय । बहुधा साधितं वस्तु दृढतामभुते यतः॥१६॥ १४ अतो अस्मात्कथनात् चेद्यदि न परीतोषस्तव परितुष्टता नास्ति तर्हि अर्थापत्तिं मानं प्रमाणमाश्रय अङ्गीकुरु । यतो यस्माद्बहुधा बहुभिः प्रकारैः साधितं वस्तु दृढतां अनुते प्राप्नोति ॥ १६॥ २१
१ इह 'प्रत्यक्षमपि वर्तते' इति काशीमुद्रितपाठोऽस्वारस्यान्न मनोरमः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org