________________
२४६
श्रीगौतमीयकाव्यं
स्यात् , अक्षिशब्दस्य चक्षुःपर्यायत्वादिति भावः । प्रत्यक्षमित्यत्र 'लक्षणेनाभिप्रति- (२।१।१४) इत्यादिना समासः, 'प्रतिपरसम३ नुभ्योऽक्ष्णः ' (गणसूत्रम् ) इति टच् । 'यस्येति च' (६।४।१४८) इति लोपः ॥ १० ॥
प्रत्यक्षतानिवेशार्थमत्र या काऽपि कल्पना । ___ सा गौरवात्कथं ग्राह्या पूर्वोक्तौ लाघवं यदि ॥११॥
अत्र रासनादिप्रत्यक्षे प्रत्यक्षताया निवेशः स्थापनं तदर्थ या काऽपि कल्पनाऽन्या संभावना सा गौरवात्कथं ग्राह्या ? यदि पूर्वोक्तौ पूर्वसिन् ९ कथने लाघवं स्यात् । एतावता लाघवं परित्यज्य गौरवं न ग्राह्यमित्यर्थः ॥ ११ ॥
इन्द्रियाणि पराण्येवाऽऽत्मनस्तेन परोक्षता । १२ इन्द्रियोद्भवविज्ञाने गौणत्वं यत आत्मनः ॥ १२॥
इन्द्रियाणि आत्मनः सकाशात्पराणि अन्यान्येव सन्ति, तेन हेतुना इन्द्रियोद्भवविज्ञाने इन्द्रियजन्यज्ञाने परोक्षता वर्चते, नतु प्रत्यक्षत्व१५ मित्यर्थः, यतो यस्मात् इन्द्रियजन्यज्ञाने आत्मनो गौणत्वमप्रधानत्व. मस्ति, अत एव तस्य परोक्षत्वमिति भावः ॥ १२ ॥
द्वारोपचारतश्चैतदपि प्रत्यक्षमस्तु ते । १८ घृतमायुरिति ख्यातियतः सत्या प्रवर्तते ॥१३॥
.. च पुनराणि आत्माधिष्ठितदेहस्य द्वारभूतानि इन्द्रियाणि तेषा... मुपचार आत्मतयाऽऽरोपणं तस्माद्वारोपचारतस्ते तव मतेन एतदि२१न्द्रियजन्यज्ञानमपि प्रत्यक्षमस्तु, यतो यस्मादुपचारादेव 'घृतमायुः'
१ अत्र 'आत्मोपचारतः' इति काशीमुद्रितश्चिन्त्यः ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org