________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
२४५
द्वारेणैव । ततोऽतीन्द्रियमेव सत्यं प्रत्यक्षं ज्ञातव्यम्, तत्र जीवेन साक्षादेव वस्तुन उपलम्भादिति ॥ ८ ॥
अथामुमेवार्थं स्पष्टयन्नाह -
उणादिको शब्दो यः स्वायात्यर्थाशिधातुजः । तद्वाच्य आत्मा प्रति तं गतं प्रत्यक्षमुच्यते ॥ ९ ॥
व्याप्तिरर्थो यस्य स व्यात्यर्थ एवंविधो योऽशिधातुः, 'अशूङ्ग ६ व्याप्तौ ' इत्याकारको धातुः, तस्माज्जातो व्यायर्थाऽशिधातुजः, उणादौ भव उणादिक, उणादिकप्रत्ययान्त इत्यर्थः । एवंविधो योऽक्षशब्दः स्यात्, उपलक्षणात् 'अक्षू व्याप्तौ' इति धातोः पचाद्यजन्तान्निष्पन्नो- ९ ऽक्षशब्दोऽपि बोध्यः, तस्याऽक्षशब्दस्य वाच्योऽभिधेय आत्मा तं प्रति गतं प्राप्तं प्रत्यक्षमुच्यते । ' अक्षो रथस्यावयवे व्यवहारे बिभीतके । प्राशके शकटे कर्षे ज्ञाने चात्मनि रावणे' इति हैमः १२ (अनेकार्थः) ॥ ९ ॥
शाब्दिकैरक्षिशब्देन प्रत्यक्षं यत्प्रसाधितम् ।
तत्तु चाक्षुषमेव स्यान्नं स्याद्वा रासनादिकम् ॥ १० ॥ १५ शब्द शब्दशास्त्रं विदन्ति अधीयते वा शाब्दिका वैयाकरणास्तैरक्ष्णोराभिमुख्यमित्यादिव्युत्पत्त्याऽक्षिशब्देन यत् प्रत्यक्षं पदं प्रसाधितं निष्पादितं तत्तु अर्थमाश्रित्य चक्षुषोर्भवं चाक्षुषं चक्षुरिन्द्रिय- १८ जन्यज्ञानविषयमेव प्रत्यक्षं स्यात् । वाशब्दः पुनरर्थः, रसनायां जिह्वायां भवं रासनं तदादिर्यस्य तत् रासनादिकं पुनः प्रत्यक्षं न २०
१ इह 'न स्याद् रासनादिकम्' इति काशीमुद्रितः पाठश्छन्दोनुरोधेन खारस्यकवैकल्याच त्याज्यः ।
Jain Education International
For Private & Personal Use Only www.jainelibrary.org