________________
२४४ .
श्रीगौतमीयकाव्यं
सिंहाद्याः सिंह-शरभ-हंसादयो जन्तुविशेषा यद्यपि केषाञ्चिन्मनुष्याणामक्षिगोचरा दृष्टिविषया न सन्ति, तथापि च ते सिंहाद्याः ३ केषाञ्चिद्वनवासिनां वनेचराणां भिल्लादीनां प्रत्यक्षाः सन्त्येव ॥६॥
त्वदप्रत्यक्षेऽपि तथा प्रत्यक्षा मम नारकाः।
तान् प्रतीहि मदुत्त्यैव, प्रमाणं यत आप्तवाक् ॥७॥ ६ तथा तेनोक्तेनैव प्रकारेण नारकास्त्वदप्रत्यक्षेऽपि एतन्निर्देशस्य भावप्रधानत्वात्तवाऽप्रत्यक्षत्वेऽपि, मम प्रत्यक्षा एव सन्तीति शेषः, तान् नारकान्मदुत्त्या मद्वचनेनैव प्रतीहि सन्तीति जानीहि । यतो यस्मात् ९ आप्तस्य यथार्थवक्तुर्वाक् प्रमाणं यथार्थज्ञानजनने हेतुरस्ति । अतो मदुक्त्यैव नारका अपि सन्तीति प्रतिपद्यखेति तात्पर्यम् ॥ ७ ॥ अथाभिप्रायान्तरमाशङ्कय परिहरन्नाहप्रत्यक्षं मन्यसे यत्वं प्रत्यक्षं तन्न तत्त्वतः।
इन्द्रियोद्भवविज्ञानं परोक्षं तत्तु तात्त्विकम् ॥ ८॥ हे अकम्पित ! यत् इन्द्रियोद्भवविज्ञानं चक्षुरादीन्द्रियजन्यज्ञानं १५त्वं प्रत्यक्षं मन्यसे तत्तत्त्वतः परमार्थतः प्रत्यक्षं नास्ति । तु इति विशेषे, तत् ज्ञानं तात्त्विकं पारमार्थिकं परोक्षं वर्तते । अयं भावः
यदिन्द्रियाणां प्रत्यक्षं तदेव प्रत्यक्षमिष्यते भवता, मदीयं तु प्रत्यक्षं १८ नाभ्युपगम्यतेऽतीन्द्रियत्वात् । स तु महानयं विपर्यासो यत उपचारमात्रत एव तदिन्द्रियप्रत्यक्षतया व्यवहियते । यथा चाऽनुमाने बाह्यधूमादिलिङ्गद्वारेण बाह्यमम्यादि वस्तु ज्ञायते । नैवमत्र, तत उपचारात्प्रत्यक्षमिव प्रत्यक्षमुच्यते । परमार्थतस्तु इदमपि परोक्षमेव, यतोऽक्षो २२ जीवः स चानुमानवदत्रापि वस्तु साक्षान्न पश्यति किं त्विन्द्रिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org