SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २४३ इत्थं संशयं प्रादुष्कृत्य भगवांस्तद्वितर्कितयुक्ति प्रकटयन्नाह प्रकटं वीक्ष्य ज्योतिष्कान् प्रतीतिस्ते सुरेष्वपि । तिर्यनरास्तु प्रकटाः प्रेक्ष्यन्ते नात्र संशयः॥३॥ ३ तुरीयगतिरुच्येत जीवानां निरयाह्वया । नेक्षितास्तद्गता जीवा गृहीता न च लिङ्गतः॥४॥ अंत आरेकसे तत्राऽस्तित्व-नास्तित्व-चिन्तया । परं यन्न त्वदध्यक्षं तदप्रत्यक्षमेव न ॥५॥ त्रिभिः सम्बन्धः । हे अकम्पित ! ज्योतिष्कान् देवान् प्रकटं यथा स्यात्तथा वीक्ष्य ९ दृष्ट्वा, अपिशब्दादऽन्यान् अप्रत्यक्षानपि सुरान् विद्यामन्त्रौपयाचितकादिफलसिद्ध्याऽनुमानतो ज्ञात्वा सुरेषु देवेषु ते तव प्रतीतिरस्ति, तिर्यङ्नरास्तु प्रकटा एव प्रेक्ष्यन्ते दृश्यन्ते अतोऽत्रापि संशयो नास्ति १२ ॥३॥ परं निरयो नरक आह्वयो नाम यस्याः सा निरयाह्वया या जीवानां तुरीयगतिश्चतुर्थी गतिरुच्येत शास्त्रे कथ्येत, तद्गतास्तां गतिं प्राप्ता जीवा नारका न ईक्षिताः न साक्षादृष्टाः, न च लिङ्गतः केन- १५ चिल्लिङ्गेनाऽनुमानेन गृहीताः ॥ ४ ॥ अतोऽस्मात्कारणात्तत्र नारकेषु अस्तित्व-नास्तित्वयोश्चिन्तया विचारेण त्वं आरेकसे संदेहं दधासि रेक शङ्कायां' कर्तरि लट् । परं हे अकंपित ! यद्वस्तु त्वदध्यक्षं तव १८ प्रत्यक्षं नास्ति तत् सर्वेषामपि अप्रत्यक्षमेवेति न ज्ञेयम् ॥ ५॥ अत्र भगवान् युक्तिमाह सन्ति यद्यपि सिंहाद्याः केषांचिन्नाक्षिगोचराः। तथापि ते च केषाञ्चित्प्रत्यक्षा वनवासिनाम् ॥६॥ २२ १'तत आरेकसे' इति काशीमुद्रितः पाठः टीकाकृदसम्मतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy