________________
२४२
श्रीगौतमीयकाव्यं
दशमः सर्गः। अथ श्रुत्वेन्द्रभूत्यादीन् श्रेयाश्रामण्यसंश्रितान् । ३ अकम्पितोऽप्युपाध्यायो वीरं वन्दितुमाययौ ॥१॥ विशुद्धविज्ञानकरं प्रसार्य्य हकम्पिताद्यौ भवसिन्धुमध्यात् ।
समुद्धृतौ येन जिनेश्वराय नमोऽस्तु तस्मै त्रिशलाऽऽत्मजाय ॥१॥ ६ अथानन्तरं श्रेयोऽतिप्रशस्यं श्रामण्यं श्रमणत्वं संश्रितमङ्गीकृतं
यैस्ते, तान् तथाभूतान् इन्द्रभूत्यादीन् द्विजान् श्रुत्वाऽकम्पितो नाम उपाध्यायोऽपि वीरं श्रीवीरप्रभुं वन्दितुं नमस्कतु आययौ समा९जगाम ॥१॥
अभाषत जगन्नाथोऽप्यकम्पित ! किमूहसे ? । तिर्यङ्-नरा-ऽमराः सन्तु नारकाः सन्ति वा न वा ॥२॥ १२ जगतां नाथो जगन्नाथः श्रीवीरप्रभुरपि अभाषत तं भाषते स्म । किमित्याह-हे अकम्पित ! तिर्यञ्चश्च नराश्च अमराश्च देवास्तिर्यङ्
नराऽमराः सन्तु परं नारका जीवाः सन्ति वा न वा इति त्वं किं १५ऊहसे कथं वितर्कयसे ?, इमां शङ्कां मा कृथा इत्यर्थः । इदमत्र
तात्पर्यम्-किं नारकाः सन्ति न वेति त्वं मन्यसे, अयं च तव
संशयो विरुद्धवेदपदश्रवणनिबन्धनः । तथा हि—'नारको वै एष १८ जायते यः शूद्रान्नमश्नाति' इत्यादि। एष ब्राह्मणो नारको जायते यः
शूद्रान्नमत्तीत्यर्थः, इत्यादिवाक्यानि नारकसत्ताप्रतिपादकानि । 'न ह वै प्रेत्य नारकाः सन्ति' इत्यादीनि तु नारकाभावप्रतिपादकानि । एतेषामर्थ युक्तिं च त्वं न जानासि तेन संशयं दधासि, परमऽयुक्तोऽयं २२ संशयो यत एषामयं वक्ष्यमाणोऽर्थ इति ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org