________________
गौतमीय प्रकाशाख्यटीकया सहितम् ।
३
वैफल्यमेव प्रसज्यते, उपलक्षणात् समस्तलोकप्रसिद्धं दानादिफलमप्ययुक्तं स्यात् । तथा देवाऽभावे वेदमन्त्रपदैर्देवाह्वानमपि वृथैव भवेत् । तस्माद्युतितो वेदवाक्येभ्यश्च सन्ति देवा इति स्थितम् ॥ ५० ॥ अथैवं भगवता छिन्नसंशयो मौर्यपुत्रः किं कृतवानित्याहइति श्रुत्वा युक्तीर्जिन पतिसुधासोदरगिरां पुनस्तत्रोपेतं प्रकटमवधार्थ्यामरगणम् । त्रिभिः सार्द्धेः सार्द्धं विनयवनतैः खण्डिकशतैः स मौर्यः प्रात्राजीत्परमपद लिप्सुर्द्विजवरः ॥ ५१ ॥ इति इत्थं जिनपतेः श्रीवीरखामिनः सुधासोदरा अमृततुल्या या ९ गिरो वाचस्तासां युक्तीः श्रुत्वा पुनस्तत्र समवसरणे उपेतं प्राप्तममरगणं देवसमूहं प्रकटमवधार्थ्य निश्चित्य स मौर्यो मौर्यपुत्रो नाम द्विजवरो ब्राह्मणमुख्यः परमपदं मोक्षं लिप्सुर्लब्धुमिच्छुः सन् विनयेन अव - १२ नतैर्नम्रेः सार्द्धेः अर्द्धशतैसँहितैस्त्रिभिः खण्डिकानां छात्राणां शतैः सार्द्धं सह प्रात्राजीत् प्रभोः पार्श्वे प्रव्रज्यां जग्राह । विनयवनतैरिति । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इति वचनादल्लोपः । इदं १५ शिखरिणी वृत्तम्, तल्लक्षणं च 'रसै रुदैछिन्ना यमनसमला गः शिखरिणी' इति ॥ ५१ ॥
इति श्रीव्यक्त-सुधर्म - मण्डित - मौर्यपुत्राणां दीक्षाग्रहणवर्णनो १८ नाम नवमः सर्गः ॥ ९ ॥
इति स्पष्टम् ।
इति गौतमीयमहाकाव्यव्याख्यायां गौतमीयप्रकाशाख्यायां नवमः सर्गः ॥ ९ ॥
२४१
१ इह 'सार्धं सार्धं' इति काशीमुद्रितपाठश्चिन्त्यः ।
१६
गौ० ० का ०
Jain Education International
२२
For Private & Personal Use Only www.jainelibrary.org