________________
२४०
श्रीगौतमीयकाव्यं
मेव दुः वृक्षस्तस्य फलानां विविधदुःखरूपाणामुपभोगो विपाकानुभवः ख्यातः प्रोक्तस्तथा खलु निश्चितं तारतम्यात् तरतमयोगेन, स्वख३ पुण्यानुसारेणेत्यर्थः । महापुण्यफलानां परमैश्वर्यादिसुखस्वरूपाणामुपभुक्त्यै उपभोगाय देवा निरुक्ता निर्निश्चयेनोक्ताः, सन्तीति शेषः । एतावता यथा स्वकृतोत्कृष्टपापफलभोगिनो नारकास्त्वया प्रतिपन्ना६ स्तथा खोपार्जितसुबहुपुण्यफलभुजो देवा अपि प्रतिपत्तव्या इति भावः ॥ १९॥
अथ 'को जानाति मायोपमानि'त्यादिवेदवाक्यस्य तात्पर्यमाह९मायोपमत्वं यदवादि वेदे ह्यनित्यतायाः प्रतिपादकं तत् ।
न चेदिदं यज्ञविधिस्तु सत्यो भवेत्कमुद्दिश्य मनोरथाप्त्यै ॥५०॥ ____ अत्र देवानामिति शेषः, ततश्चाऽयमर्थः-वेदे देवानां यन्मा१२ योपमत्वं इन्द्रजालमायातुल्यत्वमवादि कथितं तत् हीति निश्चितं,
अनित्यतायाः प्रतिपादकमभिधायकं ज्ञेयम् । अयं भावः-को जानाति मायोपमान् गीर्वाणान् इन्द्र-यम-वरुण-कुबेरादीनित्यादिवाक्यं १५ यद्वेदे उक्तं तदपि न देवनास्तित्वाभिधायकं किंतु सुराणामपि मायोपमत्वाभिधानेन शेषर्द्धिसमुदायानां सुतरामनित्यताप्रतिपादकं बोधव्यमिति । 'विचित्ररूपाश्रयणात्तदेतत्' इति पाठान्तरम् , तत्राऽय१८मर्थः-यद्वेदे देवानां मायोपमत्वमुक्तं तदेतद्विचित्ररूपाणामनेकवि
धरूपाणामाश्रयणाद्विधानात् ज्ञेयमिति । चेद्यदि इदं प्रागुक्तं देवास्तित्वं न भवेत् तर्हि तु इति विशेषे, मनोरथाप्त्यै स्ववाञ्छितप्राप्तये २१ क्रियमाणो यज्ञविधिरग्निहोत्रादियज्ञानुष्ठानं कं पदार्थमुद्दिश्य सत्यो
भवेत् , यतो 'अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यादिना वेदवाक्येन २३ खर्गरूपं यज्ञफलमुक्तं, स्वर्गिणां चाभावे कुतः स्वर्ग इति यज्ञविधे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org