________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २३९ सम्बन्धो वा तस्मात्प्रतीयतां ज्ञायताम् । वैक्रियकायो हि विविधक्रियाभृद्भवति, ततो दृश्यो वाऽदृश्योऽपि वा भवेन्नात्र किञ्चिद्वाधकमिति भावः । लम्भयन्त इति । लभेहेतुमण्ण्यन्तात् शतृ, 'लभेश्च' (७१३ ६४) इति नुम् । एतद्योगे 'गतिबुद्धि-' (१।४।५२) इत्यादिना मनुष्यानिति अणौ कर्तुौँ कर्मत्वम् ॥ ४७ ॥
वैक्रियशरीरमाश्रित्योक्तमेवार्थ स्पष्टयन्नाह -- स्थूलं च सूक्ष्म लघु च प्रलम्ब दृश्यं तथाऽदृश्यमपि प्रकाशम् । देहं यदृच्छानुगतं सुराणां यद्वैक्रियं स्याद्विविधक्रियातः॥४८॥
सुराणां देवानां यदृच्छानुगतं खच्छानुसारिदेहं शरीरं भवेत् । ९ कथमित्याह-कदाचित् स्थूलं पुष्टं भवेत्, च पुनः कदाचित् सूक्ष्ममतिकृशं भवेत् । एवं कदाचित् लघु ह्रखं कदाचिच्च प्रलम्ब दीर्घम् , एवमेव कदाचित् प्रकाशं प्रकटं दृश्यं दर्शनार्ह तथा कदा-१२ चिददृश्यमपि भवेत् , यद्यस्मात्कारणादुक्तनीत्या विविधक्रियातोऽनेकविधरूपकरणादिक्रियामाश्रित्य वैक्रियं शरीरं स्यात् । ततश्च कदाचिददृश्यत्वेऽपि न नास्तित्वशङ्का कार्येति भावः ॥ ४८ ॥ प्रकारान्तरेणाऽपि देवास्तित्वं साधयन्नाहअत्युग्रपापद्रुफलोपभोगः
ख्यातो यथा नैरयिकेषु सद्भिः। तथा महापुण्यफलोपभुक्त्यै
देवा निरुक्ताः खलु तारतम्यात् ॥ ४९ ॥ यथा सद्भिर्विद्वद्भिर्नेरयिकेषु नारकजीवेषु अत्युग्रं प्रबलतरं पाप-२१ १ अत्र ‘महापुण्यफलोपभुक्तो' इति काशीमुद्रितपाठः, स च टीकाकृतां न सम्मत इति प्रतिभाति ।
१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org