________________
२३८
श्री गौतमीयकाव्यं
३
रतिर्गतावेव सहाऽप्यमीषां चिरन्तनी वा स्थितिरस्ति लोके । यलोकपालानुमताः सुराद्रिं प्रदक्षिणीकृत्य परिभ्रमन्ति ॥ ४६ ॥ अमीषां ज्योतिष्कदेवानां सदाऽपि सर्वस्मिन्नपि काले गतौ गमने एव रती रागो विद्यते यत आगमेऽमी गतिरतिका उच्यन्ते । वाऽथवा लोके चिरन्तनी चिरकालोद्भवा स्थितिर्मर्यादाऽस्ति । कासावित्याह६ यत् लोकपालैः सोमादिभिरनुमता अनुज्ञाता अमी ज्योतिष्का सुराद्रि मेरुगिरिं प्रदक्षिणीकृत्य परिभ्रमन्ति पर्यटन्ति । ज्योतिष्का हि प्रायेण लोकपालानामपत्यस्थानीयाः श्रीभगवत्यां प्रोक्ताः सन्ति अत एतद्वि
९
१२
शेषणम् ॥ ४६ ॥
१५
पुनर्देवास्तित्वे युक्तयन्तरमाह -
तथा सुरा व्यन्तरका मनुष्यान् सुखानि दुःखानि च लम्भयन्तः । सन्ति प्रसिद्धास्तद दृश्यता तु प्रतीयतां वैक्रियकाययोगात् ॥ ४७ ॥
यथा ज्योतिष्काः प्रत्यक्षतः परिभ्रमन्तो दृश्यन्ते, तथा तेनैव प्रकारेण व्यन्तरा एव व्यन्तरकाः, उपलक्षणादन्येऽपि केचित् सुरा देवा मनुष्यान् विभवप्रदानादिना सुखानि च पुनस्तदपहरणादिना १८ दुःखानि लम्भयन्तः प्रापयन्तः प्रसिद्धाः सन्ति । ततो राजादिवत्कथमेते न सन्ति ? इति भावः । यद्येवं तर्हि कथं ते सर्वदा मनुष्यादि - चन्न दृश्यन्ते इत्याशङ्कयाह - तदित्यादि । तेषामदृश्यता तद२१ दृश्यता तु वैक्रियकायस्य वैक्रियशरीरस्य यो योगो व्यापारः
१ लोकपालानुमता इति ।
Jain Education International For Private & Personal Use Only www.jainelibrary.org