________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २३७ मेतेषां देवत्वसिद्धिरिति माऽवबुध्यखेति ॥ ॥ ४४ ॥ ___ अत्र प्रतिविधानमाहतत्त्वे जडत्वाद्गतिरीक्ष्यते किं सचेतनत्वे खलु युज्यते सा। ३ तवात्र चेदालयमात्रबुद्धिस्तथाऽपि ये वासभृतः सुरास्ते ॥४५॥ __ तत्त्वे सूर्यादेरग्निमयत्वेऽम्बुमयत्वे च सति जडत्वादचेतनत्वाद् गतिर्नियतप्रदेशे गमनं किमीक्ष्यते ? कथं दृश्यते इत्यर्थः । खलु ६ निश्चितं सा विशिष्टा गतिः सचेतनत्वे सति युज्यते उपपद्यते, ततो नियतगतिमत्त्वादेव तेषां देवत्वसिद्धिरिति भावः । पुनरपि तदाशङ्कामाविष्कृत्य भगवानाह-तवेत्यादि । चेद्यदि अत्र ज्योतिश्चक्रे ९ आलया एव आलयमानं चन्द्रादिविमानानि न तु देवा इति बुद्धिस्तव भवेत् । अयमर्थः-'यथा शून्यं पुरं लोकानामालयमात्रं स्थानमानं न तु तत्र लोकाः सन्ति' एवं चन्द्रादिविमानान्यपि आलया एवं १२ न तत्र देवाः केचित्तिष्ठन्तीति, अतः कथं तेषां प्रत्यक्षत्वम् ? इति चेत्तव बुद्धिः, तथापि वासं तद्विमाननिवासं बिभ्रतीति वासभृतः तदालयवासिनो ये केऽपि सन्ति ते सुरा देवा, ज्ञेया इति शेषः । यो हि १५ आलयः स सर्वोऽपि तन्निवासिनाऽधिष्ठितो दृष्टः, यथा प्रत्यक्षोपलभ्यमाना देवदत्ताधधिष्ठिता वसन्तपुराद्यालयाः, आलयाश्व ज्योतिष्कविमानान्यत आलयत्वान्यथाऽनुपपत्तेर्ये तन्निवासिनस्ते देवा ज्ञेया इति भावः । इह पुनराक्षेपपरिहारविस्तरस्तु इहत्यविशेषावश्यकवृत्तेज्ञेयः ॥ ४५ ॥
अथ प्रसङ्गादेतेषां मेरुं प्रदक्षिणीकृत्य परिभ्रमणे हेतुमाह- २५ १ सूर्यादीनाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org