________________
२३६
श्रीगौतमीयकाव्यं
जानीहि मा केचिदिमे मनुष्याः
सन्तीति पश्यानिमिषत्वमेषु ॥ ४३ ॥ ३ मनोज्ञो वेषो येषां ते मनोज्ञवेषास्तान् तथा चत्वारो निकाया निवासा येषां ते चतुर्निकायास्तान् भवनपत्यादिचतुर्विधान् इमान् देवान् अत्र प्रदेशे प्रत्यक्षतः प्रत्यक्षप्रमाणेन पश्य विलोकय, इमे केचिन्मनुष्याः सन्तीति मा जानीहि । कथमित्याह-एषु पुरःस्थितेषु अनिमिषत्वं निर्निमेषत्वं पश्य, मनुजा हि चक्षुर्निर्मेषोन्मेषक्रियावन्तो भवेयुः न चामी तथा, इति सिद्धं स्पष्टमेवैतेषु देवत्वमिति ९तात्पर्यम् ॥ ४३ ॥
अथैतद्दर्शनात्पूर्वं यः सन्देह आसीत् स तु युक्तो भवेदित्यपि न वाच्यं कुत इत्याह१२ ज्योतिष्कचक्रं विचरन्तमभ्रे
__प्रत्यक्षतः पश्यसि किं न सूरे!।
जानीहि मा किश्चिदिदं प्रमेयं १५ तेजोमयं वाऽप्मयमेव वास्ति ॥४४॥
हे सूरे ! हे विद्वन् ! अभ्रे आकाशे विचरन्तं ज्योतिष्कचक्र ज्योतिर्देवमण्डलं प्रत्यक्षतः किं न पश्यसि ? एतावता पश्यस्येवेत्यर्थः । १० एतेन प्रागपि सन्देहो न युक्त इत्यावेदितं, किं च इदं नभसि प्रत्य
क्षतो दृश्यमानं प्रमातुं योग्यं प्रमेयं ज्ञेयं सूर्यबिम्बादिवस्तु तेजोमयं वह्निमयं वाऽथवा अपः स्वरूपमस्येति अप्मयं जलमयमेव वाऽस्तीति मा जानीहि । अयमों यदुत को जानाति किमेतद्भवेत् ? किं सूर्योऽमि२२मयो गोलश्चन्द्रस्तु अम्बुमयः खभावतः खच्छ इति सूर्यादीनां कथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org