________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
२३५
विधवेदनया पीडिताः अत एव दुःखेन मानसिकाऽसुखेन पारवश्यादिना दिग्धा उपचिताः सन्ति, अतो न आवृत्तिं इहागमनं ऋच्छन्ति प्राप्नुवन्ति । परं सुराणां देवानां स्वायत्ततायां स्वाधीनतायां सत्यामपि यत् आवृत्तिरागमनं न ईक्ष्येत न दृश्येत, ततो वितर्कः किं सुराः सन्ति न वा ? इत्येवंरूपो विमर्शः, समुत्पद्येत इति शेषः, इति त्वमूह से चिन्तयसि ॥ ४१ ॥
स्युर्यज्ञकर्माणि सुराश्रयाणि प्रतीयते तेन तु देवसत्ता । विरुद्धवाचस्तव चित्तमेवं विधूनयन्त्यस्तकिनास्तिभावात् ॥४२॥
सुरा देवा एव आश्रयो येषां तानि सुराश्रयाणि यज्ञकर्माणि ९ हविर्दानादीनि सर्वाण्यपि यज्ञकार्याणि स्युर्भवेयुः, देवानुद्दिश्यैव हविर्दानादिप्रवृत्तेरिति भावः । तु इति विशेषे, तेन हेतुना देवसत्ता देवानां सद्भावः प्रतीयते ज्ञायते, 'को जानाति' इत्यादिवाक्येन च १२ देवाऽभावो ज्ञायते इत्युक्तमेव प्राकू, एवमित्थं विरुद्धा विरुद्धार्थसूचिकाः वाचो वेदवाण्योऽस्तकिनास्तिभावात् सुराणामस्ति नास्तित्वमाश्रित्य तव चित्तं विधूनयन्ति भ्रामयन्ति । चुरादिण्यन्तस्य धूञो 'धूञ् १५ प्रीञोः' ( वा० ) इति नुक् । अस्तकीत्यादि । अस्तीति तिङन्तप्रतिरूपकमव्ययं 'अव्ययसर्वनाम्नाम् ' ( ५।३।७१ ) इति टेः प्रागकच् । अस्तेवास्तकि अस्तकि च नास्तकि च अस्ति किनास्ति, तयो - १८ भीवस्तस्मात् ल्यब्लोपे पञ्चमी ॥ ४२ ॥
'
अत्रोत्तरमाह
प्रत्यक्षतः पश्य मनोज्ञवेषान्देवानिमान्त्र चतुर्निकायान् ।
Jain Education International For Private & Personal Use Only
२२
www.jainelibrary.org