________________
२३४
श्रीगौतमीयकाव्यं
- ततो भगवता यदुक्तं तदाह -----
भो मौर्यपुत्राऽमरलोकवार्ता
सती न वा संशयवानिति त्वम् । 'मायोपमान् पश्यति निर्जरान् को'
व्यामोहयेदित्यपि वेदवाक्यम् ॥४०॥ ६ भो मौर्यपुत्र ! अमरलोकवार्ता देवलोकप्रवृत्तिः सती विद्यमाना न वा इति संशयोऽस्त्यस्येति संशयवान् त्वमसि । किं देवाः सन्ति न वा? इति संशयः तव चेतसि वर्तते इत्यर्थः । अत्र संशये हेतुमाह९'मायोपमान् मायासदृशान् निर्जरान् देवान् कः पश्यति ?' इति वेदवाक्यमपि त्वं व्यामोहयेत् व्यामोहं भ्रान्तिमुत्पादयेत् । अयं भावः
उभयथाऽपि वेदपदश्रवणात्तवायं संशयः । तथा हि-'स एष यज्ञा१२ युधी यजमानोऽञ्जसा स्वर्गलोकं गच्छति' इत्यादि तथा 'को जानाति - मायोपमान् गीर्वाणान् इन्द्र-यम-वरुण-कुबेरादीनि'त्यादि । एषां च वेद
पदानामयमर्थस्तव बुद्धौ प्रतिभासते-यथा स एष यज्ञ एव दुरित१५ दारणक्षमत्वादायुधं यस्याऽसौ यज्ञायुधी यजमानोऽञ्जसा प्रगुणेन न्यायेन . खर्गलोकं गच्छतीति देवसत्ताप्रतिपत्तिः, को जानातीत्यादीनि तु
देवाभावप्रतिपादकानि, अतस्तव संशयो, अयुक्तश्चायम् , यतोऽमीषां १८ वेदपदानां नायमर्थः, किं त्वयं वक्ष्यमाणलक्षण इति ॥ ४० ॥ . इत्थं मौर्यपुत्रस्य सन्देहं प्रादुष्कृत्य भगवास्तद्वितर्कितयुक्तिं प्रकट
यन्नाह२१ त्वमूहसे नैरयिका यदा" आवृत्तिमृच्छन्ति न दुःखदिग्धाः ।
वायत्ततायामपि यत्सुराणां नावृत्तिरीक्ष्येत ततो वितर्कः॥४१॥ २३ यद्यमोत्कारणात् नैरयिका नरकवर्तिनो जीवा आर्ता क्षेत्रजादिवि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org