________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
२३३
सशरीरस्य' इत्यादिवेदवाक्याभ्यां तु स्फुट एव बन्धो मोक्षश्च प्रतिपादितोऽस्तीति नात्र शङ्का कार्या ॥ ३७ ॥
तदेवं भगवता छिन्नसंशयोऽसौ किं कृतवानित्याहनिशम्य युक्तीरिति वीतशङ्कः श्रीवीतरागोक्तगभीरवाचाम् । स मण्डितोऽपि स्वपरिच्छदेन सावद्यकृत्याद्विरतो बभूव ||३८||
इत्युक्तप्रकारेण श्रीवीतरागेण वीरखामिना उक्ता या गमीरवाचो ६ गम्भीरवाण्यस्तासां सम्बन्धिनीर्युक्तीरुपपत्तीः निशम्य श्रुत्वा स मण्डितोऽपि द्विजोपाध्यायो वीता गता शङ्का यस्य स वीतशङ्कः सन् स्वपरिच्छदेन निजशिष्यपरिकरेण सह सावद्यकृत्यात् सपापकार्यात् ९ प्राणातिपातादेः विरतो निवृत्तिमान् बभूव पारमेश्वरीं प्रव्रज्यां जग्राहेत्यर्थः ॥ ३८ ॥
* इति मण्डित स्वामिदीक्षाग्रहणम् ॥ ६ ॥←अथ मौर्यपुत्रस्य तदाहसार्वश्यमाकर्ण्य जिनेश्वरस्य
श्रीमण्डितं प्रव्रजितं च बुद्धा ।
समाययौ मौर्यबुधः सतत्रः
१२
१५
शिवाध्वचारोत्सुकचित्तवृत्तिः ॥ ३९ ॥
૩૮
जिनेश्वरस्य श्रीवीरप्रभोः सर्वज्ञस्य भावः सार्वश्यं सर्वज्ञत्वं आकर्ण्य १८ जनमुखात् श्रुत्वा च पुनः श्रीमण्डितं प्रत्रजितं प्रभुपार्श्वे गृहीत प्रव्रज्यं बुद्धा ज्ञात्वा सतन्त्रः सपरिवारः पुनः शिवाध्वनि मोक्षमार्गे यश्चारः चरणं गमनं तत्रोत्सुका चित्तवृत्तिर्यस्य स तथोक्त एवंविधो मौर्यो मौर्यपुत्रो बुधो विद्वान् समाययैौ प्रभुपार्श्वे समायातः ॥ ३९ ॥
२२
Jain Education International For Private & Personal Use Only www.jainelibrary.org