________________
२३२
श्रीगौतमीयकाव्यं
मलापगमात् सामस्त्येन शुद्धो निर्मलीभूतो अत एव अक्रियतां सूक्ष्मबादरमनोवाकाययोगविवर्जितत्वं प्रपन्नः प्राप्तः सन् चिदात्मा ३ शुद्धज्ञानमय आत्मा सदा सर्वकाले मुक्तो निगद्येत कर्मनिर्मुक्तः सिद्धात्मा उच्यतेत्यर्थः । चः पादपूरणे ॥ ३६ ॥
तदेवं युक्तिभिः बन्ध-मोक्षौ व्यवस्थाप्य वेदवाक्यद्वारेणाऽपि ६ तव्यवस्थामाह
यन्निर्गुणो नैव कदापि बद्धो
व्याख्यायि वृद्धैरिह चिन्मयोऽयम् । तन्निश्चयाऽध्वानमपेक्ष्य लक्ष्य
चैतन्य-जाड्योभयभावभेदात् ॥ ३७॥ चिन्मयस्तत्त्वतो ज्ञानमयोऽयमात्मा वृद्धैः प्राक्तनपुरुषैः इहाs१२ मिन् ‘स एष विगुणो विभुर्न बध्यते' इत्यादौ वेदवाक्ये यन्निर्गुण
स्तमोगुणादिशून्यस्तथा कदापि कर्मभिनव बद्ध एवंरूपो व्याख्यायि व्याख्यातस्तन्निश्चयाध्वानं निश्चयमार्ग मोक्षमपेक्ष्य आश्रित्य लक्ष्य १५ ज्ञातव्यम् । कुत इत्याह-चैतन्येत्यादि । चैतन्यं च चेतनत्वं च जाड्यं च जडत्वं च ते च-यौ उभौ भावौ तयोर्भेदो भिन्नत्वं तस्मात् ।
अयमर्थः-चैतन्यमात्मखभावो जाड्यं तु कर्मादिपुद्गलखभावः, १८ आत्मकर्मणोश्च क्षीरनीरन्यायेन सम्बन्धस्ततश्च व्यवहारनयमपेक्ष्य
न प्रायेण चैतन्य-जाड्यभावयोर्भेदः, निश्चयापेक्षया तु सर्वथा भेदोsस्त्येव, ततो मुक्तौ सर्वथा जाड्यापगमात् शुद्धचैतन्यस्यैव च सद्भा
वात् , स एष विगुण' इत्यादि वेदवाक्यानां मुक्तजीवविषयत्वं २२ बोध्यम् । मुक्तस्य च बन्धाद्यभावेऽविप्रतिपचिरेवेति 'न ह वै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org