SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २३१ पुत्रश्च एवमेष पितापुत्रसम्बन्धः क विराममवसानमेति प्राप्नोति ?, अनादित्वान्न कापीत्यर्थः । तथा तेनैव प्रकारेण हीति निश्चितं, यदतीतस्य देहादेः कार्यतापन्नं कर्म तदेव निमित्तं अग्रेतनदेहादेः ३ कारणमस्ति । अयमन्वयो जीव-कर्मणोरनुगमोऽपि शृङ्खलयाऽनादिरस्ति ॥ ३४ ॥ 'अथाऽरूपिणि जीवे कथं रूपिणः कर्मणो बन्ध ?' इत्याशङ्का-६ मपाकर्तुमाह-- अरूपिणि व्योमनि चेन्निबन्धं घटादिकानामुत मन्यसे त्वम् । तत्कर्मणः पौगलिकस्य बन्धं किं शङ्कसेऽनादिविमूढजीवे ३५ ९ ___ 'उत प्रश्नवितर्कयो रिति हेमचन्द्रोक्तेः । उतेति प्रश्ने, हे मण्डित! चेद्यदि त्वं अरूपिणि व्योमनि आकाशे घटादिकानां घटपटादिपदार्थानां नितरां बन्धो निबन्धस्तमात्यन्तिकसम्बन्धं मन्यसे, १२ तत्तर्हि अनादिविमूढो मोहाद्याकुलो यो जीवस्तस्मिन् पौद्गलिकस्य पुद्गलैर्निष्पन्नस्य कर्मणो बन्धं प्रति किं शङ्कसे कथं शङ्काविषयं करोषि ? उभयत्र न्यायस्य समानत्वान्न कोऽप्यत्र शङ्काऽवकाश इति १५ भावः ॥ ३५ ॥ इत्थमनादिबन्धं प्रतिपाद्य मुक्तखरूपं दर्शयन्नाहज्ञात्वा पुनः खं च परं परेभ्यो निवर्तमानो विलसन् स्वभावे । १४ निःशेषशुद्धोऽक्रियतां प्रपन्नो मुक्तो निगद्येत सदा चिदात्मा ३६ खमात्मानं परं सकलपदार्थेभ्यो भिन्नं ज्ञात्वा परेभ्योऽन्येभ्यः पुद्गलादिभ्यो निवर्तमानः पृथग भवन् पुनः स्वभावे ज्ञानादिखरूपे विलसन् विलासं कुर्वन् , लीनो भवन्निति यावत् । निःशेषेण कर्म-२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy